This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
एवं मादनप्रयोगाः अनेके सनत्कुमारसंहितायां सप्तशत्यामुक्ताः । अत्र
कतिचन निरूप्यन्ते
-
 
बिन्दौ तहक्तूमारोप्य तदषो बाहुयुग्मकम् ।
तदधः कुचयुग्मं तु तदधो योनिमेव च ॥
एतेषु पञ्चस्थानेषु पञ्चबाणान्विचिन्तयेत् ॥
 
पञ्चवाणचीजानि मुखे बाहुयुग्मे कुचमध्ये योनिमध्ये यथाक्रमं द्रां द्रीं कीं
ब्लूं स इति चिन्तयेत् इत्यर्थः । अयं प्रयोगः कामराजप्रयोगसमय एव ॥
 
त्रिकोणे बैन्दवस्थाने अधोवक्तं विचिन्तयेत् ।
बिन्दोरुपरिभागे तु वक्तं॒ सञ्चिन्त्य साधकः ॥
तदुपर्येव वक्षोजद्वितयं संस्मरेहुधः ।
तदुपर्येव योनिं च क्रमशो भुवनेश्वरीम् ॥
श्रीविद्यां कामराजं च विन्यस्याशु विमोहयेत् ॥
 
अयं प्रयोगः 'मुखं बिन्दुं कृत्वा' इति प्रयोगात् अतिशीघ्रकरः । अत्रापि
पञ्चबाणप्रयोगः पूर्ववत् । एवमेता हशमादनप्रयोगाः सनत्कुमारसंहितायां
अवगन्तव्याः ग्रन्थविस्तरभयान्नोक्ताः ॥ १९ ॥
 
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
 
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्प शमयति शकुन्ताधिप इव
 
ज्वर उष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥
 
किरन्तीं वर्षन्तीं, अङ्गेभ्यः अवयवेभ्यः, किरणनिकुरुम्बामृतरसं-
किरणानां मरीचीनां निकुरम्ब्रः समूहः, तस्मादुत्पन्नः अमृतरसः तम् । हृदि
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri