This page has not been fully proofread.

एकोनविंशः लोकः
 
५९
 
मुख वक्तूं, विन्दुं बिन्दुरूपं, कृत्वा, विन्दुस्थाने मुखं ध्यात्वे-

 

 
त्यर्थः । कुचयुगं स्तनद्वयं, अधः अधस्तात् तस्य मुखस्य । तदधः तस्य
कुचयुगस्य अधःप्रदेशे, हरार्ध हरस्य अर्ध शक्तिः त्रिकोणं योनिरिति
यावत् । ध्यायेत् चिन्तयेत् यः साधकः । 'तत्र' इत्यध्याहार्यम् ।
हरमहिपि ! हरस्य सदाशिवस्य महिषि जाये, ते भवत्याः, मन्मथकलां
कामराजबीजम्, सः साधकः, सद्यः तदानीमेव, संक्षोभं सर्वजगत्सं-
क्षोभं चित्तविकारं, नयति प्रापयति, वनिताः स्त्रियः । इतिशब्दः क्रिया-
विशेषणद्योतकः । अतिलघु अतितुच्छम्, त्रिलोकीमपि त्रिभुवनमपि,
आशु शीघ्रं, भ्रमयति रवीन्दुस्तनयुगां- रवीन्दू मूर्यचन्द्रौ, तावेव स्तनौ,
तयोः युगं यस्याः सा ताम् ॥
 
-
 
>
 
अत्रेत्थं पदयोजना — हे हरमहिषि ! मुखं बिन्दुं कृत्वा तस्याधः
कुचयुगं कृत्वा तदधः हरार्धं कृत्वा, तत्र ते मन्मथकलां यः ध्यायेत् सः
सद्यः वनिताः संक्षोभं नयतीति यत् तत् अतिलघु, किंतु रवीन्दुस्तनयुगां
त्रिलोकीमपि आशु भ्रमयति ॥
 
C
 
अत्र त्रिलोक्याः रवीन्दुस्तनयुगवत्वविशेषणेन स्त्रीत्वारोपणं अयं
मादनप्रयोगो वनितास्वेव प्रयोक्तव्य इति ज्ञापयितुम् ॥
 
अत्रेदमनुसन्धेयम् - साधकः त्रिकोणे बिन्दुस्थाने साध्यायाः कान्तायाः
वक्तुं ध्यात्वा तदधस्तात् तस्याः कुचयुगं ध्यात्वा, तत्कुचद्वयस्याधस्तात्
तस्याः योनिं विचिन्त्यं तत्र वक्तूकुचद्वययोनिषु प्रधानाङ्गेषु मारबीजं सञ्चिन्त्य
तथा कान्तया आत्मनस्तादात्म्यं सम्पादयेत् । यथोक्तं चतुश्शत्याम्-
बिन्दुं सङ्कल्प्य वक्तं तु तदधस्तात्कुचद्वयम् ।
तदधश्च हरार्धं तु चिन्तयेत्तदधोमुखम् ॥
तत्र कामकलारूपामरुणां चिन्तयेदिह ।
ततस्तेनैव रूपेण निजरूपं विचिन्तयेत् ॥ इति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri