This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
तनुच्छायाभिः तनोः देहस्य छायाभिः कान्तिभिः, ते भवत्याः,
तरुणतरणिश्रीसरणिभिः तरुणतरणिः बालसूर्यः, तस्य श्रीः शोभा, तस्या इव
सरणिः मार्गः–सौभाग्यमिति यावत् – यासां ताभिः, दिवं आकाशं, सर्वा
उवीं कृत्स्नां भूमिं, रोदः प्रदेशमित्यर्थः । अरुणिमनि आरुण्ये, मनां अत्य-
रुणामिति यावत् । यद्वा -अरुणिमनिमयां नितरां मग्नाम् । यथोक्तं शम्भुना-
यावकाब्धौ निमग्रां यो दिवं भूमिं विचिन्तयेत् ।
 
५८
 
तस्य सर्वा वश याताः त्रैलोक्यवनिता द्रुतम् * ॥ इति ।
अतश्च अरुणिमशब्देन यावकाब्धिलक्ष्यते, यावकाब्धिमध्यस्थितामित्यर्थः ।
स्मरति चिन्तयति, यः साधकः, भवन्ति, अस्य साधकस्य, त्रस्यद्वनह-
रिणशालीननयनाः त्रस्यन्तो वनहरिणाः-वन (हरिण) शब्दः स्वच्छन्दचारित्व-
लक्षणेया अतित्रासं लक्षयति – तेषामिव शालीने हीणे, अतिसुन्दरे इति
-
यावत् नयने यासां ताः तथोक्ताः सह साकम्, ऊर्वशी नाम देवर्गाणिका
तयां, वश्याः वशङ्गताः कतिकति आभीक्ष्ण्ये द्विरुक्तिः । नः निषेधे ।
गीर्वाणगणिकाः देववाराङ्गनाः ॥
 
1
 
अत्रेत्यं पदयोजना- हे भगवति ! तरुणतरणिश्रीसरणिभिः ते तनु-
च्छायाभिः सर्वां दिवं उर्वी च अरुणिमनि मग्नां यः स्मरति अस्य
त्रस्यद्वनहरिणशालीननयनाः गीर्वाणगणिकाः ऊर्वश्या सह कतिकति न
वश्या भवन्ति ? सर्व अप्सरसो वश्या भवन्तीत्यर्थः ॥ १८ ॥
मुख विन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हराधं घ्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥
 
1
 
* s
 
'ध्रुवम्'
" इति पाठान्तरम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri