This page has not been fully proofread.

अष्टादशः श्लोकः
 

 
मितपरिणाहं मण्डलम् । ऊकारस्य तद्विगुणम् । ऋकारस्य पञ्चाशल्लक्षयोजन-
परिमितं मण्डलम् । तद्विगुणम् ऋकारस्य । तद्विगुणं ऌकारऌकारयोरपि ।
एवं एकारस्य सार्धकोटिपरिणाहं मण्डलम् । ऐकार
- ओकार – औकाराणां
सममेव एकारेण । बिन्दुविसर्गयोस्तु अकारद्विगुणं मण्डलम् । व्यञ्जनशक्तीनां
अकारमण्डलादर्घं मण्डलम् । ताः शक्तयः पाशाङ्कुशाक्षमालाकमण्डलुधराः ।
अन्तस्थास्तु पाशाङ्कुशाभयवरकराः । ऊष्माणेस्तु पाशाङ्कुशाक्षमालावरकराः ।
ळकारक्षकारौ पाशाङ्कुशैक्षवशरासनपुष्पबाणयुक्तकरौ । एताः शक्तयः पञ्चाशद्व-
र्णात्मिकाः ॥
 
केचितु— स्वरात्मिकाः शक्तयः स्फटिकाभाः । कादयो मावसानाः
विद्रुमाभाः, यादयो नव पीतवणीः, क्षकारः अरुणवर्णः इति ॥
 
अपरे तु – अकारादयो धूम्रवर्णाः, ककारादयः ठान्ताः सिन्दूरवर्णाः,
डादिफान्ताः गौरवर्णाः, बादिलान्ताः अरुणवर्णाः, वादिसान्ताः कनकवर्णाः, *
हक्षौ तटिदाभौ, ळकारस्तु लकार एवान्तर्भूतः, इति वदन्ति । इदमेवा-
स्मन्मतं भगवत्पादाचार्याणामपि सम्मतम् । एतत्सर्व सुभगोदयव्याख्याना-
वसरे चन्द्रकलायां सम्यनिरूपितमस्माभिः ॥ १७ ॥
 
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
 
दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
 
सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिकाः ॥ १७॥
 
* इक्षयोस्तु पादौ सादौ वा अन्तर्भावः " इत्यधिकः पाठः प. पुस्तके दृश्यते.
 
11
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri