This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
रूपाकर्षिणी स्पर्शाकर्षिणी च चतुर्द्वारेषु 'योजिताः उक्तफलदाः । तथा च
 
श्रुतिः-
1
 
गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् ।
ईश्वरीसर्वभूतानां तामि॒होप॑ ह्वये॒ श्रियम् ॥*
 
-
 
अस्या अर्थः— गन्ध्रद्वारां गन्धरसरूपस्पर्शी: गन्धशब्देन संगृहीताः, तेन
गन्धाकर्षिण्यादयः अधिदेवताः संगृहीता भवन्ति - गन्धाकर्षिणी, रसाकर्षिणी,
रूपाकर्षिणी, स्पर्शाकर्षिणी चेति । तामिर्युक्तानि चतुर्हाराणि यस्यां सा
गन्धद्वारा, तां गन्धद्वाराम् । दुराधर्षा दुष्प्रधर्षा, मन्दभाग्यानामिति शेषः।
नित्यपुष्टाँ नित्यानन्दस्वरूपिणीम्, करीषिणीं
यद्वा–करिमिः गजैः ईषिणीं परिवृताम् । ईश्वरीं अघिदेवतां सर्वभूतानाम्,
तां इह चक्रे उपह्वये श्रियं श्रीविद्याम् । गन्धद्वारामिति गन्धाकर्षिणी-
चतुष्कं वशिन्याद्यष्टकं योगिनी द्वादशकं संगृहीतम् । तथा च शंभुवचनम्-
मातृकां वशिनीयुक्तां योगिनीभिः समन्विताम् ।
 
गन्धाद्याकर्षिणीमित्यर्थः ।
 
गन्धाद्याकर्षिणीयुक्तां संस्मरेत् त्रिपुराम्बिकाम् ।
अत्रेदमनुसन्धेयम्-वशिन्यादयः शक्तयः पञ्चाशद्वर्णात्मिका इत्युक्तम् ।
तत्र वशिनीशक्तिः स्वरात्मिका । स्वराः षोडश अकारादयः । तेषां स्वरूंप
सनत्कुमारसंहितायां पञ्चशत्यामुक्तं संक्षेपेण कथ्यते अकारात्मिका शक्तिः
अष्टभुजा पाशाङ्कुशवराभयपुस्तकाक्षमालाकमण्डलुव्याख्यामुद्राकरा ।
आकाराद्यात्मिकाः शक्तयः शुभ्रवर्णाः । इयांस्तु विशेषः – अकारात्मिकायाः
एवं
शक्तेः मण्डलं अशीतिलक्षयोजनायतम् । आकारस्य तद्विगुणम् । इकारस्य
नवतिलक्षयोजनायतम् । ईकारस्य तद्विगुणम् । उकारस्य कोटियोजनपरि
 
ध्यातास्तत्तदुतफलदाः. 1 याज्ञिकी उ, १,
 
*
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri