2023-02-16 08:26:11 by ambuda-bot
This page has not been fully proofread.
सप्तदश: लोंक:
अत्रेत्थं पदयोजना – हे जननि ! वाचां
सवित्रीभिः शशिमणि-
शिलाभङ्गरुचिभिः 'वशिन्याद्याभिः सह त्वां यः सञ्चिन्तयति, स महतां
भङ्गिरुचिभिः वाग्देवीवदनकमलामोदमधुरैः वचोभिः काव्यानां कर्ता भवति ॥
अत्रेदमनुसन्धेयम्—'वशिन्याद्याभिः त्वां' इत्यत्र त्वामित्यनेन
भगवत्याः स्वरूपमुक्तम् । भगवत्याः स्वरूपं तु पञ्चाशद्वर्णात्मिका मातृकैव ।
एतत्तु 'शिवः शक्तिः काम: * इत्यादिश्लोकव्याख्यानावसरे प्रपञ्चयिष्यते ।
सेयं पञ्चाशद्वर्णात्मिका मातृका अष्टवर्गात्मिका भवति । ते चाष्टवर्गाः
अकचटतपयशादयः । अकारादयः षोडश स्वराः प्रथमवर्गः । कादयः
पञ्च द्वितीयः । चादयः पञ्च तृतीयः । टादयः पञ्च चतुर्थः । तादयः
पञ्च पञ्चमः । पादयः पञ्च षष्ठः । यादयश्चत्वारः सप्तमः । शादयः पञ्च
अष्टमः । एवं अष्टवर्गात्मिका भगवती मातृका त्रिपुरसुन्दरी अकचट-
तपयशवर्गेषु यथाक्रमं वशिन्यादिशक्तिभिर्योजिता विन्दुत्रिकोणात्मकशिव-
चक्रचतुष्टयवसुकोणदशारद्वितयचतुर्दशकोणात्मकेषु अष्टसु चक्रेषु योजिता
ध्याता सती काव्यकर्तृत्वसंपादिका । वशिन्यायाभिरिति आदिशब्देन
कामेश्वरीप्रभृतीनां अष्टानां सङ्ग्रहणं विद्यादिद्वादशयोगिनीसङ्ग्रहणं गन्धा-
कर्षिण्यादिचतुष्टय
सङ्ग्रहणं कृतमित्युक्तं भवति । वशिन्यष्टकमुक्तम् ।
योगिनीद्वादशकं तु–विद्यायोगिनी, रेचिकायोगिनी, मोचिकायोगिनी, अमृता-
योगिनी, दिपिकायोगिनी, ज्ञानयोगिनी, आप्यायनीयोगिनी, व्यापिनीयोगिनी,
मेधायोगिनी, व्योमरूपा योगिनी, सिद्धिरूपा योगिनी, लक्ष्मीयोगिनी ।
एवं द्वादशयोगिनीभिः सार्धं वशिन्याद्याष्टकं मिलित्वा विंशतिकलाः भवन्ति ।
ता: विंशतिकलाः शुद्धस्फटिकसङ्काशा: दशारयुग्मकोणेषु सञ्चिन्तनीयाः
उक्तफलदाः । अयं च भूप्रस्तारभेदः । भूप्रस्तारः 'चतुष्षष्ट्या तन्त्रैः"
इत्यादिश्लोकव्याख्यानावसरे निपुणतरं निरूप्यते । गन्धाकर्षिणी, रसाकर्षिणी,
३२ श्लोकः. + ३१ लो:.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri