2023-02-16 08:26:11 by ambuda-bot
This page has not been fully proofread.
५४
सौन्दर्यलहरी सव्याख्या
.: अत्र परम्परितं रूपकमलङ्कारः, बालातपरुचित्वारोपणस्य चेतसि
कमलत्वारोपणस्य निमित्तत्वात् 'रूपकहेतुरूपकं परम्परितम्' इति
लक्षणात् ॥ १६ ॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्यामिस्त्वां सह जननि संचिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीबदन कमलामोदमधुरै: ॥ १७ ॥
सवित्रीभिः जनयित्रीभिः, वाचां गिरां, शशिमणिशिलाभङ्ग-
रुचिभिः चन्द्रकान्तमणिशकलतुल्यंकान्तिभिः, दलितचन्द्रकान्तमणेः अति-
घावल्यं लोकसिद्धम् । वशिन्याद्याभिः वशिनीप्रमुखाभिः । तद्गुणसंवि-
ज्ञानो बहुव्रीहिः— वशिंनी आद्या यासां ताः शक्तयोऽष्टौ वशिन्याद्याः,
योगिन्यो द्वादश, गन्धाकर्षिण्यादयश्चतस्रः, इति वशिन्याद्याः । अत्र
एकस्य आद्यशब्दस्य लोपः – वशिन्याद्याद्या इत्यर्थः । वशिन्यष्टकं—
बशिनी, कामेश्वरी, मोदिनी, विमला, अरुणा, जयिनी, सर्वेश्वरी, कौलिनी ।
।
एतामिः त्वां भवतीं, सह साकं, जननि ! हे मातः ! सञ्चिन्तयति
यः, सः साधकः, कर्ता रचयिता, काव्यानां प्रवन्धानां, भवति समर्थः
प्रभवति । महतां महात्मनां कालिदासंप्रभृतीनां, भङ्गिरुचिभिः भङ्गीनां
रेखाणां, रुचिभिः स्वादुभिः बचोभिः वाग्विलासैः, वाग्देवीवदन कमला-
मोदमधुरैः वाग्देव्या भारत्याः वदनकमले यः आमोदः परिमलः तेन
मधुरैः अव्यक्तैः, पुंभावमापन्नायाः भारत्याः वाग्विलासा: इमे इत्येवं
अमजनकैरित्यर्थः ॥
-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri