This page has not been fully proofread.

षोडशः श्लोकः
 
कवीन्द्राणां कवीश्वराणाम्, चेतः कमलवनवालातपरुचि-चेतांस्येव
कमलानि पद्मानि, तेषां वनं षण्डं, तस्य बालातपरुचिः प्राभातिकारुणकान्तिः,
तां भजन्ते सेवन्ते, ये सन्तः सत्पुरुषाः, कतिचित् विरलाः, अरुणामेव
अरुणाख्यां अरुणवर्णा च, भवतीं त्वां, विरिश्चिप्रेयस्याः विरिञ्चिः ब्रह्मा
तस्य प्रेयस्याः प्रियायाः सरस्वत्याः, तरुणतरशृङ्गारलहरीगभीराभिः
तरुणतरे अतियौवने । यहा – तरुणतरश्चासौ शृङ्गारश्च तस्य लहरी उद्विक्त-
प्रवाहः । यद्वा – लहरीशब्देन समुद्रस्य चन्द्रोदये यादृश उत्सेकः सः
उच्यते । लहरीयुक्तगभीराभिः अतिगम्भीराभिरित्यर्थः । वाग्भिः वाग्विलासैः ।
विदधति कुर्वन्ति, सतां सभासदां, रञ्जनं हृदयानुरञ्जनम्, अमी सन्तः
परामृश्यन्ते ॥
 
-
 
-
 
,
 
५३
 
अत्रेत्थ पदयोजना - हे भगवति ! कवीन्द्राणां चेतःकमलवन-
बालातपरुचि अरुणामेव भवतीं कतिचित् ये सन्तः भजन्ते, अमी सन्तः
विरिञ्चिप्रेयस्याः तरुणतरशृङ्गारलहरीगमीराभिः वाग्भिः सतां रञ्जनं विदधति ॥
 
अयमर्थः-
हृदयकमले भगवतीमरुणां ध्यायन्तः पुम्भावमापन्ना
सरस्वतीव शृङ्गाररसप्रधानैः वाग्विलासैः सभारञ्जनं कुर्वन्ति । भगवत्याः
मातृकात्मकत्वात् सरस्वतीरूपत्वेनैव सारस्वतप्रदत्वम् । अरुणवर्णध्यानमहिना
शृङ्गाररसप्राधान्येन वाग्विलासप्रवृत्तिरिति । यथोक्तं वामकेश्वरतन्त्रे-
अरुणाख्यां भगवतीं अरुणाभां विचिन्तयेत् ।
पाशाङ्कुशधरां देवीं धनुर्बाणधरां शिवाम् ॥
वरदाभयहस्तां च पुस्तकाक्षस्रगन्विताम् ।
अष्टबाहु त्रिनयनां खेलन्तीममृताम्बुधौ ॥
स. करोत्येव शृङ्गररसास्वादनलम्पटान् ।
सभासदः सदा सर्वान् साधकेन्द्रः सभास्थले ॥ इति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri