2023-02-16 08:26:11 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
"
घटिकापुस्तककराम्बरः इष्टदानमुद्रा, त्रासत्राणं अभयदानमुद्रा, स्फटिक-
घटिका स्फटिकपानपात्रम् । स्फटिकाक्षमालेति केचित् । तत्पक्षे स्फटिक-
गुलिकेति* पाठः । पुस्तकं विद्यामुद्रा, पुस्तकं वा एतैर्युक्तकराम् ।
शाकपार्थिवादित्वात् मध्यमपदलोपः । न तु स्फटिकघटिकापुस्तकानि करेषु
यस्याः इति सप्तमीबहुब्रीहिः । 'प्रहरणादिभ्य उपसङ्ख्यानम् इति तस्य
प्रहरणादिभ्य एवेति नियतत्वात् । सकृत् एकवारम्, नकारो निषेधार्थ,
त्वा त्वामित्यर्थः, नत्वा नमस्कारं कृत्वा कथं कथंचित्, इवेति वाक्या-
लङ्कारे, सतां कवीश्वराणांम्, संनिदधते संनिधानं प्राप्नुवन्ति । मधु-
क्षीरद्राक्षामधुरिमधुरीणाः फणितयः- मधु क्षौद्रं, क्षीरं पयः, द्राक्षा मृद्धीका,
एतेषां मधुरिमा माधुर्य, तत्र धुरीणाः धुरं वहन्तीति धुरीणाः अग्रेसराः
तद्वन्मधुरा इत्यर्थः । फणितयः वाग्वैखर्यः ॥
-
अत्रेत्थं पदयोजना — हे भगवति ! शेरज्ज्योत्स्नाशुद्धां शशि-
युतजटाजूटमकुटी वरत्रासत्राणस्फटिकघटिकापुस्तककरां त्वा सकृन्नत्वा सत
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः कथमिव न सन्निधते ॥
अयमर्थः—अत्र व्यतिरेकमुखेन सकृन्नमस्कारोऽपि कवित्वबीज-
भूतसंस्कारोत्पादकः । तद्भावे प्रकारान्तरेण येन केनापि तद्वीजो-
त्पत्तिर्नास्तीति सूचितम् ॥ १५ ॥
कवीन्द्राणां चेतःकमलवनवालातपरुचि
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिश्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥
* 'घुटिका' इत्यपि पाठ:.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri