This page has not been fully proofread.

पञ्चदशः श्लोक:
षट्त्रिंशदुत्तरशतं चन्द्रस्य किरणाश्शिवे ॥
ब्रह्माण्डं भासयन्तस्ते पिण्डाण्डमपि शाङ्करि ।
दिवा सूर्यस्तथा रात्रौ सोमो वह्निश्च सन्ध्ययोः ॥
प्रकाशयन्तः कालांस्ते तस्मात्कालात्मकास्त्रयः ।
षष्ट्युत्तरं च त्रिशतं दिनान्येव च हायनम् ॥
हायनात्मा महादेवः प्रजापतिरिति श्रुतिः ।
प्रजापतिर्लोककर्ता मरीचिप्रमुखान् मुनीन् ॥
'सृजन्त्येते लोकपालान् ते सर्वे लोकरक्षकाः ।
संहारश्च हरायत्तः उत्पतिभवनिर्मिता ॥
रक्षा तु मृडसंलग्ना सृष्टिस्थितिलये शिवः ।
नियुक्तः परमेशान्या जगदेवं प्रवर्तते ॥ इति ॥
'तामेवानुप्रविश्य' इत्यादिना – 'तमेव भान्तमनुभाति सर्व तस्य भासा
सर्वमिदं विभाति' * इति श्रुत्यर्थोऽनूदितः । अत्र बहु वक्तव्यमस्ति,
तदुत्तरत्र सम्यनिरूपयिष्यामः ॥
सारस्वतप्रयोगमाह —
 
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिका पुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥
शरज्ज्योत्स्नाशुद्धां - शरदि शरत्काले ज्योत्स्ना चन्द्रिका तइच्छुद्धां
अतिशुभ्राम् । शशियुतजटाजूटमकुटां— शशिना चन्द्रेण युतो युक्तः जटा-
जूटो मकुटो यस्यास्तां, चन्द्रकलावतंसामित्यर्थः । वरत्रासत्राणस्फटिक-
4 सृजन्ति ते. * कठ. ५-२५, घुठिका' इत्यपि पाठ: •
GADGURU VISHWARADHYA
SIMHASAN JNANAMANDIR
LIBRARY
 
५१
 
langamawadi Math, Varanasi
 
CC-0. JangamwAccCla Noollection 1,Lanbengo