This page has not been fully proofread.

५०
 
सौन्दर्यलहरी सभ्याख्या
 
साधु साधु महाभागे पृष्टं त्रैलोक्यसुन्दरि ।
गुह्याद्गुह्यतमं ज्ञानं न कुत्रापि प्रकाशितम् ॥
कलाविद्या पराशक्ते: * श्रीचक्राकाररूपिणी ।
तन्मध्ये बैन्दवस्थानं तत्रास्ते परमेश्वरी ॥
सदाशिवेन सम्पृक्ता सर्वतवातिगा सती ।
चक्रं त्रिपुरसुन्दर्याः ब्रह्माण्डाकारमीश्वरि ।
पञ्चभूतात्मकं चैव तन्मात्रात्मकमेव च ।
इन्द्रियात्मकमेवं च मनस्तत्त्वात्मकं तथा ॥
मायादितत्त्वरूपं च तच्वातीतं च बैन्दवम् ।
बैन्दवे जगदुत्पतिस्थितिसंहारकारिणी ॥
सदाशिवेन सम्पृक्ता तत्त्वातीता महेश्वरी ।
ज्योतीरूपा पराकारा यस्या देहोद्भवाश्शिवे ॥
किरणाश्च सहस्रं च द्विसहस्रं च लक्षकम् ।
कोटिरर्वुदमेतेषां परा सङ्ख्या न विद्यते ॥
तामेवानुप्रविश्यैव भाति लोकं चराचरम् ।
यस्या देव्या महेशानि भासा सर्व विभासते ॥
तद्भासा रहितं किञ्चित् न च यच्च प्रकाशते ।
तस्याश्च शिवशक्तेश्च चिद्रूपायाश्चितिं विना ॥
आन्ध्यमापद्यते नूनं जगदेतच्चराचरम् ।
तेषामनन्तकोटीनां मयूखानां महेश्वरि ॥
मध्ये षष्ट्युत्तरं तेऽमी त्रिशतं किरणाश्शिवे ।
ब्रह्माण्ड व्यश्नुवानास्ते सोमसूर्यानलात्मना ॥
अमेरष्टोत्तरशतं षोडशोत्तरकं रखेः ।
 
* 'शक्तिः' इति च पाठ:.
 
CC-0. Jangamwagi Math Collection. Digitized by eGangotri