This page has not been fully proofread.

चतुर्दश: श्लोकः
 
४९
 
चन्द्रकलाः
 
तत्तु चन्द्रमसः वृद्धिक्षयौ न भवतः, किन्तु षोडशनित्यात्मकाः षोडश-
प्रतिपदादिपौर्णमास्यन्ततिथिप्रवर्तिकाः, तथैव कृष्णप्रतिपद-
मारभ्य अमावास्यान्त' तिथिप्रवर्तिकाः स्वात्मतिरोधानातिरोधानाभ्यामिति
मन्त्रविद्रहस्यम् ॥
 

 
इदमत्रानुसन्धेयम् - श्रीविद्यायाः चन्द्रकलाविद्यापरनामधेयायाः पञ्च-
दशतिथिरूपत्वात् षष्ट्युत्तरत्रिशतं मयूखाः दिवसात्मकाः, तेन संवत्सरो
लक्ष्यते । तस्य कालशक्तयात्मकस्य संवत्सरस्य प्रजापतिरूपत्वात् प्रजापतेः
जगत्कर्तृत्वात्, मरीचीनां जगदुत्पत्तिस्थितिलयकरत्वम् । ते च मरीचयः
अस्मिन् ब्रह्माण्डे पिण्डाण्डे च षष्ट्युत्तरत्रिशतसंख्याकाः । एवं अनन्त-
कोटिपिण्डाण्डब्रह्माण्डेषु । एवमेव प्रतिब्रह्माण्डं प्रतिपिण्डाण्डं षष्टयुत्तर-
त्रिशतसंख्याकाः मयूखाः । अतश्चानन्तमयूखाः । ते च मयूखाः सूर्यचन्द्राग्नि-
सम्पृक्ताः भगवतीपादारविन्दजन्मानः तान् तान् लोकान् प्रकाशयन्ति ।
अयं च लोकस्य द्वारमर्चिमत्पवित्र॑म्' S इति श्रुत्या मयूखानां भगवतीपादार-
बिन्दसम्भव उक्तः । तथैव च 'मरीचय स्वायंभुवाः' इति त्या तेषां
मरीचीनां सृष्टिस्थितिलयकरत्वमुक्तम् । एतदुक्तं भवति – सूर्यचन्द्राग्नयः
भगवतीपादारविन्दोद्भूतानन्तकोटिकिरणेमध्ये कतिपयान् किरणानाहृत्य भगवती-
प्रसादसमासादित जगत्प्रकाशनसामर्थ्यात् जगन्ति प्रकाशयन्तीति । अतश्च
सर्वलोकातिक्रान्तं चन्द्रकलाचक्रं बैन्दवस्थानमिति । तत्र वर्तमानं चरणा-
म्बुजम् । अनेककोटिब्रह्माण्डपिण्डाण्डावच्छिन्नमयूखानां उपर्येव वर्तमानत्वात्
'तेषामप्युपरि तव पादाम्बुजं तर्तते' इति सिद्धानुवादः, न त्वारोपस्तुतिरित्यनु-
सन्धेयम् । यथोक्तं भैरवयामळे चन्द्रज्ञानविद्यायां गौरीं प्रति महेश्वरेण-
* ' चन्द्राः' इत्येव क्वचित्पाठः + ' अमावास्याप्रभृति कृष्णप्रतिपदन्त '
इति बहुषु कोशेषु पाठः ६ तै. प्रा. ३-१२-३. वै. भा. १-२७.
 
4
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri