This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
तृतीयखण्डमावृणोति । आधारचक्रे महीतत्त्वात्मके वहेः षट्पञ्चाशज्ज्वालाः,
मणिपूरके उदकतत्त्वात्मके स्वोपरिस्थिते द्विपञ्चाशज्जालाः । एवमष्टोत्तरशतं
वह्नेः ज्वालाः । सूर्यस्य अमितत्त्वात्मके स्वाधिष्ठाने द्वाषष्टिकिरणाः, अनिल-
तस्त्वात्मके अनाहतचक्रे चतुःपञ्चाशत्किरणाः । सूर्यकिरणानां मणिपूरं विहाय
स्वाधिष्ठानप्रवेशः सुर्याग्न्योरेकत्वात्, सूर्यान्तर्भावादमेश्च । स्वाधिष्ठानमणिपूर-
योस्तु सूर्याभिस्थानयोः मध्ये अग्निस्थाने सर्यप्रवेशः सूर्यस्थाने अग्नि-
प्रवेशः जगद्दहनाग्निशामक *संवर्तमेघात्मकसूर्य किरणजनितवर्षोत्पत्त्यर्थम् ।
एतत्तु 'तटित्वन्तं शक्तया'" इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपाद-
यिष्यामः । एवं सूर्यस्य षोडशोत्तरशतं किरणा भवन्ति । चन्द्रस्य कलाः
वियत्तत्त्वात्मके विशुद्धिचक्रे द्विसप्ततिः, मनस्तत्त्वात्मके आज्ञाचक्रे चतुष्षष्टिः।
एवं चन्द्रस्य षट्त्रिंशदुत्तरशतं कलाः भवन्ति । यथोक्तं भैरवयामळे
भैरवाष्टकप्रस्तावे—
 
,
 
४८
 
अष्टोत्तरशतं वद्वे: षोडशोरकं रखेः ।
 
षट्त्रिंशदुत्तरशतं चन्द्रस्य च विनिर्णयः ॥ इति ॥
एवं सोमसूर्यानलाः पिण्डाण्डब्रह्माण्डे आवृत्य वर्तन्ते । पिण्डाण्डब्रह्माण्ड-
योरैक्यात् पिण्डाण्डवृतिरेव ब्रह्माण्डावृतिरिति रहस्यम् । एवं पिण्डाण्डमतीत्य
वर्तते सहस्त्रकमलम् । तच्च ज्योत्स्नामयो लोकः । तत्रत्यश्चन्द्रमा नित्यकलः।
एतच्च 'तवाज्ञाचक्रस्थम्' § इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपाद-
यिष्यामः । 'आज्ञाचक्रोपरि स्थितश्चन्द्रः' इति यदुक्तं तत्तु चन्द्रकला-
वस्थानमात्रम्, न तु चन्द्रस्य स्थानमिति । यदुक्तं सुभगोदये—षोडशकलानां
षोडशनित्यात्मकत्वात्, तासां प्रतिपदादिशुक्लपक्षकृष्णपक्षतिथ्यात्मकतया वृद्धि -
क्षयसद्भाबात्, चन्द्रस्यापि सहस्र कमलगतस्य वृद्धिक्षयौ भवत एवेति,
 
'नामक' इत्यपि पाठ: १४० श्लोकः, 'आवृत्य' इत्यपि पाठः ९३६ श्लोकः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri