This page has not been fully proofread.

चतुदेश: श्लोकः
 
४७
 
दिवि द्विष्षट्त्रिंशत्, मनसि चतुष्षष्टिः, इति तेषामुपरि तव पादाम्बु-
जयुगं वर्तते इति शेषः ॥
 
अत्र षट्पञ्चाशदित्यादिसङ्ख्याशब्दानां सङ्ख्येयपरत्वात् सङ्ख्येयानां
मयूखानां बहुत्वेऽपि एकवचनान्तत्वमेव । यथा-
विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः ।
सङ्ख्यार्थे द्विबहुत्वे स्तः...॥
 
न तु संख्येये इति नियमात् । संख्येयानां मयूखानां नियमाप्रसक्तेः
बहुवचनान्तत्वं सिद्धम् । अत्रेदं तत्त्वम् - षट्पञ्चाशदित्यादिसंख्यानां संख्येय-
विशेषणत्वेऽपि न शुक्लादिगुणतौल्यं, यथाऽऽह पदमञ्जरीकारः- 'विंशत्यादयो
गुणाः न शुक्लादिभिः गुणैः समानधर्माणो भवितुमर्हन्ति । विंशत्यादयो
हि तावत् पृथक्तयोगिषु द्रव्येषु वर्तन्त इति व्यासज्यवृत्तयः, शुक्कादयस्तु
प्रत्येकपर्यवसायिनः' इति । अत्रेदमतिरहस्यम् – संख्येयपराणां संख्या-
शब्दानां बहुवचने षट्पञ्चाशतो मयूखा इति प्राप्तौ षट्त्रिंशदुतरशतो-
त्तरत्रिसहस्रसंख्याकाः भवेयुः । अतो विवक्षितार्थसिद्धिरिति नियमफलमिति ॥
 
अत्रेदमनुसन्धेयम् — आधारस्वाधिष्ठानमणिपूरानाहतविशुद्धयाज्ञाचक्रा-
त्मकं श्रीचक्रं त्रिखण्डं सोमसूर्यानलात्मकम् । मूलाधारस्वाधिष्ठान चक्रद्वयमेकं
खण्डम् । मणिपूरानाहतचऋद्वयमेकं खण्डम् । विशुद्धयाज्ञाचक्र द्वयमेकं
खण्डम् । अत्र प्रथमखण्डोपरि अग्निस्थानम् । तदेव रुद्रग्रन्थिरित्युच्यते ।
द्वितीयखण्डोपरि सूर्यस्थानम् । तदेव विष्णुग्रन्थिरित्युच्यते । तृतीयखण्डोपरि
चन्द्रस्थानम् । तदेव ब्रह्मप्रन्थिरित्युच्यते । 'सोमसूर्यानलात्मकं' इति
अवरोहणक्रमेणावगन्तव्यम् । तत्र प्रथमखण्डोपरि स्थितो बह्निः स्वज्वा-
लाभिः प्रथमखण्डमावृणोति । द्वितीयखण्डोपरि स्थितः सूर्यः स्वकीयैः
किरणैः द्वितीयखण्डमावृणोति । तृतीयखण्डोपरि स्थितः चन्द्रः स्वकलाभिः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
-