This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
एतादृशान् मादनप्रयोगान् 'मुख बिन्दुं कृत्वा * इत्यादिश्लोक-
व्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥ १३ ॥
क्षितौ षट्पञ्चाशद्धिसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्पष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥
क्षितौ पृथिवीतत्वयुक्ते मूलाधारे पट्पञ्चाशत् षडत्तरपञ्चाशत्सं-
ख्याकाः, द्विसमधिकपञ्चाशत् द्वाभ्यां समधिकाः पञ्चाशत् उदके उदक-
तत्त्वयुक्ते मणिपूरस्थाने, हुताशे वह्नितत्वयुक्ते स्वाधिष्ठानचक्रे, द्वाषष्टिः
हौ च षष्टिश्च डाषष्टिः । 'विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्' इति
सूत्रेण द्विशब्दादिकारस्य आकारः । चतुरधिकपञ्चाशत् चतुस्संख्यया
अधिकाः पञ्चाशत् अनिले वायुतत्त्वयुक्ते अनाहतचक्रे, दिवि आकाश-
तत्त्वयुक्ते विशुद्धिचक्रे द्विष्षट्त्रिंशत् द्विरावृत्तषट्‌त्रिंशत्संख्याकाः द्विसप्तति-
सङ्ख्याका इत्यर्थः, मनसि मनस्तत्वयुक्त आज्ञाचक्रे, चतुष्षष्टिः ।
इति एवंप्रकारेण ये प्रसिद्धाः शास्त्रेषु आगमेषु, स्वासंवेद्यत्वेन च योगिनां
प्रसिद्धाः मयूखाः सन्ति तेषां मयूखानां अप्युपरि सहस्रदलमध्यवर्ति-
चन्द्रबिम्बात्मके बैन्दवापरनामके सुधासिन्धौ, तव भवत्याः, पादाम्बु-
जयुगं वर्तते विद्यते । एवं समयसम्प्रदाय इति शेषः ॥
 

 
४६
 
अत्रेत्थं पदयोजना–हे भगवति । ये मयूखाः क्षितौ षट्पञ्चाशत्,
उदके द्विसमधिकपञ्चाशत्, हुताशे द्वापष्टिः, अनिले चतुरधिकपञ्चाशत्,
 
१९ श्लोकः
 
+ मनः शब्देन एकादशेन्द्रियाणां ग्रहणम्.
 
*
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri