This page has not been fully proofread.

त्रयोदशः श्लोकः
 
वर्तन्त इति । स्वयमेवाप्सरसः स्वसौन्दर्ये जुगुप्सितवत्य इति भावः ॥
 
अत्र अनन्वयालङ्कारो ध्वन्यते, लोके क्वापि तुल्यवस्तुनोऽसद्भावात्
स्वस्य स्वयमेव तुल्यमिति प्रतीतेः ॥ १२ ॥
 
नरं वर्षीयांस नयनविरसं नर्मसु जडं
 
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशवित्रस्त सिचयाः
हठात्नुट्यत्काञ्च्यो विगलितढुकूला युवतयः ॥
 
४५
 
नरं मनुष्यमात्रं, वर्षीयांसं अतिवृद्धं, नयनविरसं नयनाभ्यां
विरसं काचकामिलपटलादिनेत्रदोषयुक्तम्, नर्मसु जडं नर्मसु रतिकलासु
जडं अतिमूढम्, तव भवत्याः अपाङ्गालोके कटाक्षवीक्षणे, पतितं
कटाक्षैकगोचरमित्यर्थः, अनुधावन्ति अनुधावमानाः शतशः शतसङ्ख्याकाः,
शतशब्दः सङ्ख्यातीतोपलक्षकः, भूर्भुवस्स्वर्लोकस्थिताः सर्वा इत्यर्थः। गलद्वेणी-
बन्धाः, गलन्तो वेणीबन्धा यासां ताः, कुचकलशवित्रस्तसिचयाः कुच-
कलशाभ्यां विस्रस्ताः शिथिलाः सिचयाः चेलाञ्चला यासां ताः, हठात्त्रु-
ट्यत्काञ्चयः हठात् शीघ्रं त्रुट्यन्त्यः गलन्त्यः काञ्च्यो रशनाकलापाः
यासां ताः, विगलितदुकूला: सस्तनीवीबन्धाः, युवतयः तरुण्यः ॥
 
-
 
अत्रेत्थं पदयोजना — हे भगवति ! वर्षीयांसं नयनविरसं नर्मसु
जडं तवापाङ्गालोके पतित नरं शतशः युवतयः गलद्वेणीबन्धाः कुच-
कलशविस्रस्तसिचयाः हठात्रुट्यत्काञ्चयः विगलितदुकूला: सत्यः तादृशं
नरं मदनमिति मत्वेति शेषः, अनुधावन्ति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri