This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
त्वदीयं सौन्दर्य तुहिनगिरिकन्ये तुलयितु
कवीन्द्राः कल्पन्ते कथमपि विरिश्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोमिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥
 
त्वदीयं तव सम्बन्धि त्वद्देहगतमित्यर्थः । सौन्दर्य लावण्यम् ।
तुहिनगिरिकन्ये तुहिनप्रधानो गिरिः हिमाद्रिः तस्य कन्या पुत्री, तस्याः
सम्बुद्धिः । तुलयितुं तुलया समीकर्तुम् । कवीन्द्राः विद्वच्छ्रेष्ठाः कल्पन्ते
शक्नुवन्ति, कथमपि कथंचिदपि न कल्पन्त इत्यर्थः । विरिश्चिप्रभृतयः
विरिञ्चिः ब्रह्मा प्रभृतिर्येषां ते हरीन्द्रादयः । यत् यस्मात्कारणात् आलो-
कौत्सुक्यात् आलोके भवत्सौन्दर्यालोके यदौत्सुक्यं तस्मात्
पञ्चमी, औत्सुक्यमवलम्ब्य । या निमित्तपञ्चमी । अमरललनाः देवयोषितः
यान्ति प्राप्नुवन्नि, मनसा अन्तःकरणेन, तपोमिः तपस्यामिः कुच्छ्रचान्द्रा-
यणादिमिः दुष्प्रापां प्राप्तुमशक्यां, अपिविरोधे गिरिशसायुज्यपदवीम् ॥
 
ल्यब्लोपे
 
अत्रेत्थं पदयोजना — हे तुहिनगिरिकन्ये ! त्वदीयं सौन्दर्य तुलयितुं
विरिञ्चिप्रभृतयः कवीन्द्राः कथमपि कल्पन्ते । यद्यस्मात्कारणात् अमरललना:
आलोकौत्सुक्यात् तपोभिः दुष्प्रापामपि गिरिशसायुज्यपदवीं मनसा यान्ति ॥
 
अयमर्थः—–—बाणीपतिवाचस्पतिप्रभृतीनामपि त्वत्सौन्दर्य सदृशान्तरं
परिकल्प्य वर्णयितुमशक्यम्, त्वत्सदृशसुन्दरवस्त्वन्तराभावात् । ऊर्वशीतिलो-
समादीनामप्सरसां त्वत्सौन्दर्यलेशतुलायामपि तत्कोटिप्रवेशो दूरत एवापास्तः ।
यतश्चाप्सरसः त्वत्सौन्दर्यदर्शने पुम्भावं प्रार्थयमानाः
दुरधिगमे त्वत्सौन्दर्यबस्तुनि सदाशिवैकगम्ये दुर्लमसदाशिवसायुज्यमनोरथा
पुरुषान्तर-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri