This page has not been fully proofread.

एकादशः श्लोकः
 
चक्रविद्योपासनाव्यतिरेकेण देवतान्तरोपासनायामनिष्टमाहुः-
इन्द्र॑म॒ग्निं च॑ ये वि॒दुः । सिता इव संयन्ति ।
र॒श्मिभिः॑ समु॒दीरि॑ताः । अ॒स्माल्लो॒कादमुष्मा॒ाच ॥
 
अयमर्थः – सुरासुरमुख्यवन्दितचरणारविन्दायाः सर्वभूतान्तर्यामिन्याः
सर्वव्यापिन्याः जगदुत्पत्तिस्थितिलयहेतोश्चऋविद्याया अन्यत्वेन ये इन्द्रमझिं,
चकारात् यमादिलोकपालान् पृथिव्यादिसदाशिवान्ततत्वानि च, उपास्यत्वेन
ये विदुः ते सिकता इव वालुकाकणा इव संयन्ति, परस्परं विरलाः भ्रष्टा
भवेयुरित्यर्थः । किञ्च – रश्मिभिः यमपाशैः उत्तर प्रबन्धे 'अपेत वीत'
इत्यादौ प्रतिपादितैः, समुदीरिताः संयता बद्धा भवेयुः इत्यर्थः । किञ्च-
अस्माल्लोकात् अमुष्माल्लोकाच्च भ्रष्टा भवेयुरिति शेषः । अत एव श्रुत्यन्तरम् -
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥ *
 
अयमर्थः—अविद्यां विद्याविरुद्धां ज्ञानमार्गविरुद्धां इन्द्रादिसेवां 'वाचं
धेनुमुपासीत + इत्येवमध्यारोपितसेवां च ये कुर्वते ते अविद्वांसः अन्धं तमः
प्रविशन्ति अन्धतामिस्रं प्रविशन्तीत्यर्थः । चकारः प्रकरणसमाप्तिद्योतकः ॥
 
ऋषिभि॑र॒दात् पृश्निभिः ॥
 
पृश्निनामभिः ऋषिभिः एतत्सर्वमदात्, अदायि । कर्मणि लुङ
छान्दसः कर्मणि प्रत्ययलोपः, कर्तृप्रत्ययव्यत्ययश्च । ऋषिभिः पृश्निभिरेव-
मुक्तमित्यर्थः । यद्वा-पृश्निभिः ऋषिभिः सहितः ऋषिसङ्घः एवमदात्,
वाचमिति शेषः, उक्तवानित्यर्थः ॥ ११ ॥
 
* ई. उ. ९.
 
† बृ. ७-८-१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri