This page has not been fully proofread.

४२
 
यद्योषित् यस्मिन् चक्रे
 
शेषः ।
 
कुल्योषित् कुलं त्यक्ता राति विष्णोः प्रभेदने ।
 
इति सनत्कुमारवचनात् । यत् यस्मिन् चक्रे पतिव्रता पत्या सदाशिवेन
सार्ध सहस्त्रदलकमले विहरमाणा । रिष्टं शुभाभावं 'रिष्टं क्षेमे शुभाभावे'
इत्यभिधानात्, तदन्यदरिष्टं शुभं, अमृतास्वादमित्यर्थः, यत्किञ्चिक्रियते
तत् स्वाधिष्ठानगतोऽग्निः अनुवेघति सहायं करोति । अतश्च अभ्यासवशात्
वायुना अप्रिज्वल्य अग्निशिखानुविद्धविलीनचन्द्रमण्डलगलत्पीयूषधारानु-
भवे पञ्चविंशतितत्त्वातीता परमेश्वरी इति ज्ञातुं सुशकमित्युपदेशः ॥
 
चक्रविक्रोपासनं वर्णिनां आश्रमिणां ज्ञानिनामज्ञानिनां च फल-
दायकमित्यमिसन्धायाहुः—
 
सौन्दर्यलहरी सव्याख्या
 
कुलयोषित् विष्णुप्रन्थिपर्यन्तं गत्वा, रातीति
 
अ॒श्श॒ता॑सश्श॒तास॒श्च । य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ः ।
 
स्वर्यन्तो नापेक्षन्ते ॥
 
-
 
-
 
अयमर्थः – अशृतासः अपक्का:, अक्षपितान्तःकरणकल्मषा इत्यर्थः ।
शृतासश्च पक्वाश्च – 'आज्जसेरसुक्' इत्यसुगागमः, क्षपितान्तःकरणकल्मषा
इत्यर्थः । यज्वानः यजनशीला: त्रैवर्णिकाः आश्रमिणश्च । अयज्वनः
यागरहिताः शूद्रादयः । 'तस्माच्छूद्रो यज्ञेऽन॑वक्लृप्तः * इति श्रुतिः त्रैवर्णि-
कैकनियताधिकारयज्ञशब्दवाच्यामिष्टोमादिपरा । चक्रविद्योपासने शूद्राणा-
मपि अधिकारचोदनात्, निषादस्थपतिवत् वैदिके कर्मण्यधिकारसिद्धेः न
काचित् क्षतिः ! यन्तः, इण् गतौ, चऋविद्यामवगच्छन्तः स्वः स्वर्ग
 
नापेक्षन्ते ॥
 
* तै. सं. ७-१-१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri