2023-02-16 08:26:08 by ambuda-bot
This page has not been fully proofread.
एकादशः श्लोकः
लक्ष्यन्ते, तन्मयी, न भवतीत्यज्यामयी, मनस्तत्त्वादिमयी, शिवचक्रात्मक-
चतुर्योन्यात्मिकेति यावत्, शिवयोनीनां बैन्दवस्थानादधः अवाङ्मुखतया
अवस्थानात् । अनाशकी नाशरहिता शक्तिचक्रात्मकपञ्चयोन्यात्मिका । पराङ्
अधोमुखी एति, शक्तियोनीनामपि शिवयोन्यपेक्षया अवाङ्मुखत्वात् । एवं
शिवयोनिशक्तियोन्योः परस्परमवाङ्मुखत्वं चक्रलेखनक्रमादवगम्यते ॥
विदुषः फलमाहु:-
४१
इह चमु चान्वे॒ति । वि॒द्वान् दे॑वासु॒रानु॑भयान् ॥
दीव्यन्तीति देवाः एकादशेन्द्रियाणि । असुराः असवः प्राणाः
प्राणादिपञ्चवायवः तान् रान्ति आददत इति पञ्च तन्मात्रा * उच्यन्ते ।
उभयान् उभयत्र देवासुरेषु अन्वितान् मायाशुद्धविद्यामहेश्वरसदाशिवान् ।
यो विद्वान् पञ्चविंशतितत्त्वजातं विदित्वा शिवशक्तिसम्पुटात्मकं पञ्चविंशति-
तत्त्वविलक्षणं षड्विंशतत्त्वं यस्तु वेत्ति स विद्वान् इह च इह लोके, पूजा-
तारतम्यवशात्, अमुत्र च परलोके, सार्टिसालोक्यसामीप्यसारूप्यसायुज्या-
त्मिकया पञ्चविधया मुक्त्या अन्वेति युज्यते । साष्टर्यादिस्वरूपं सप्रपञ्च
पुरस्तात् प्रपञ्चयते ॥
↑
अथ देवासुरोभयज्ञानोपायमाहुः-
-
यकुमारी म॒न्द्रय॑ते । यद्योषिद्यत्प॑ति॒व्रतः॑ ।
अरि॑ष्टं यत्कच क्रि॒यते' । अ॒ग्निस्तदनु॑वेधति ॥
अयमर्थः – कुण्डलिनीशक्तेरवस्थात्रयं विद्यते । यस्मिन् चक्रे कुमारी
कौमारावस्थामापन्ना प्रथमं सुप्तोस्थिता मन्द्रयते मन्द्रस्वरं करोति, कुण्डलि-
न्याः सर्पात्मकत्वात् । सर्पो हि सुप्तोत्थाने मन्द्रस्वरं करोति, तद्वदित्यर्थः ।
*
'महदादयः' इत्यधिकः पाठः क्वचित् दृश्यते. १९९ श्लोकव्याख्याने.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri