This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
शिवशक्तयोः तत्रैव निवासमाहुः-
वि॒भ्राज॑माना॒ हरि॑णीम् । य॒शसा स॑प॒रीवृ॑ताम् ।
 
पुर५ हिरण्मयीं ब्रह्मा । विवेशापराजिता ॥
 
ऋचोऽयमर्थः–
 
विभ्राजमानां—अनन्तकोटिसंख्याक किरणैरिति शेषः,
प्रकाशमानाम् । हरिणीं हिरण्यवर्णां, 'हिरण्यवर्णा हरिणीं' * इति श्रुतेः ।
यशसा कीर्त्या सम्यक्परिवृताम्, ये ये लोके कीर्तिमन्तस्ते सर्वे भगवती -
प्रसादसमासादितकीर्तिमन्त इत्यर्थः । तां बैन्दवीं पुरं चिन्तामणिगृहं, ब्रह्मा
सदाशिवः, 'ब्रह्मा शिवो मे अस्तु सदाशिवोम्" इति श्रुतेः पुल्लिङ्ग-
ब्रह्मशब्दसदाशिवशब्दयोः एक एवार्थः प्रतीतः । विवेश अपराजिता
सादाख्या चन्द्रकला विवेश । वाक्यद्वयेन उभयोः प्रवेशभेदप्रतिपादनं
"बैन्दवे चिन्तामणिगृहे सदाशिवः सर्वदा सन्निहितः ; अपराजिता कुण्डि-
लिनीशक्तिः षट्चक्राणि भित्वा भूयो भूयः प्रविशति" इतीममर्थ
ज्ञापयितुम् ॥
 
शिवशक्तयोः तस्मिन् चक्रे अवस्थितिप्रकारमाहु
 
पराडेत्य॑ज्याम॒यी । पराडेत्य॑नाशकी ॥
 
1
 
अस्यार्थः— पराङ् अधोमुखी चक्ररूपिणी शिवशक्तयोर्मध्ये शक्तिः
अज्यामियी ज्यानिरहिता नाशरहिता नित्या दुःखरहिता आनन्दमयी
इत्यर्थः । एति वर्तते । या — अज्यामयी, ज्या भूमिः तेन पञ्चभूतानि
 
* श्रीसूक्ते † तै. उ. ४-२९.
चन्द्ररूपिणी. : ज्याविरहिता.
 
1
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri