This page has not been fully proofread.

एकादशः श्लोकः
 
-
 
देवानामिन्द्रादीनां पूज्यत्वेन सम्बन्धिनी पूः श्रीविद्यानगरम् । यद्वा-
दीव्यन्तीति देवाः पञ्चविंशतितत्त्वानि तेषां पूरधिष्ठानम् । यद्वा – सूर्य-
चन्द्रामीनां पूः सोमसूर्यानलात्मकत्वात् श्रीचक्रस्य । तस्य पुरत्रयसमष्टि-
रूपत्वात् पूरित्येकवचनसिद्धिरिति ध्येयम् । अयोध्या असाध्या, मन्दभाग्या-
नामिति शेषः ॥
 
1
 
तस्या हिरण्म॑यः कोशः । स्वर्गो लो॒को ज्योतिषाऽऽव॑तः ॥
 
अस्यार्थः तस्यां पुरि श्रीचक्रमध्ये हिरण्मयः कोशः, सहस्रदल-
कमलकोश इत्यर्थः, बैन्दवस्थाने सहस्रदलकमलकोशस्य विद्यमानत्वात् ।
तस्य कोशस्य ज्योतिषा स्वर्गो लोकः आवृतः । ज्योतिर्लोकः स्वर्गलोक
इत्यर्थः ॥
 
अथ पृश्नयः चक्रविद्योपासनायाः फलमाहु:-
-
 
यो वै त ब्रह्मणो वे॒द । अ॒मृ॒तनावृ॒तां पु॑रीम् ।
तस्मै' ब्रह्म च॑ ब्रह्मा च । आयुः कीर्ति' प्र॒जां ददुः ॥
 
आवृतां
 
अयमर्थः—ब्रह्मणः ब्रह्मस्वरूपायाः भगवत्याः तां पूर्वोक्तां अमृतेन
चन्द्रमण्डलगलत्पीयूषधारावृतां पुरीं श्रीचक्ररूपां त्रिपुरायाः पुरं
यो वेद ज्ञानपूर्वकमर्चनं करोति तस्मै विदुषे अर्चकाय, ब्रह्म च ब्रह्मस्व-
रूपा भगवती, ब्रह्मा च ब्रह्मरूपो भगवान् । चकारद्वयं उभयोर्मेलनं
समुच्चिनोति, मिलितयोरेव बैन्दवथाने सहस्रारे सुधासिन्धुमध्ये मणिद्वीपे
चिन्तामणिगृहे निवासात् । एतौ उभौ आयुः जीवितं कीर्ति यशः, प्रजां
सन्तानं, ददुः दद्यातां इत्यर्थः । 'व्यत्ययो बहुलम्' इति वचनव्यत्ययः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri