This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
ऋचोऽयमर्थः - हे भारताः भायां भारूपायां ज्योतीरूपायां चक्र-
विद्यायामिति यावत्, रताः उपासनारताः । यद्वा — भारत्या: सरस्वत्याः
श्रीविद्यायाः उपासकाः । सामान्य विहितप्रत्ययस्य विशेषवाचित्वात् भारता
इति । उत्तिष्ठत उपासनोपक्रमं कुरुत । मा स्वप्त अप्रमत्ता भवत । अग्नि-
मिच्छध्वं स्वाधिष्ठानगतामिं प्रज्वलयत । राज्ञश्चन्द्रस्य । उमया सहितः
सोमः । चन्द्रमण्डलान्तर्गतबैन्दवस्थानगतत्वात् देव्याः, चन्द्रस्य सोमशब्द-
वाच्यत्वसिद्धिः । तस्य चन्द्रस्य निष्यन्दैः तृप्तासः तृप्ताः । सूर्येणं अना-
हतचक्रविशुद्धिचक्रयोर्मध्ये स्थितेन सूर्येण, सयुजा अभिचन्द्रयोर्मध्यवर्तिना
इत्यर्थः । यद्वा – सूर्येण सयुजा राज्ञा तृप्तास इत्यन्वयः । कीदृशाः ?–
उषसः प्लष्टमायामयक्लेशाः । यद्वा – उषसः उषःकाले ध्यानरताः तस्मिन्
काल एव भगवतीनिदिध्यासनादेर्विहितत्वात् ॥
 
-
 
——
 
इतः परं पूजासामग्रीमुपदिशन्ति पृश्नयः -
 
-
 
युवा सुवासः ।
 
युवा दृढाङ्गः स्वस्थः । सुवासाः शुभ्रवस्त्रः । इदं शुभ्राभरणशुभ्र-
माल्यादीनामुपलक्षकम् । एवंविधः सन् पूजयेदिति शेषः ॥
 
श्रीचक्रस्य स्वरूपं तावदाहुः--
अष्टाक्रा नवद्वारा ॥
 
अष्टकोण–दशकोणद्वितय–चतुर्दशकोण-अष्टपत्र - षोडशपत्र-त्रिवलय-
त्रिरेखात्मकानि अष्टौ चक्राणि यस्याः सा अष्टाचका । अत एव नवद्वारा
नवसङ्ख्याकानि द्वाराणि त्रिकोणरूपाणि यस्याः सा नवद्वारा ॥
दे॒वाना॑ पू॒र॑यो॒ोध्या ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri