This page has not been fully proofread.

एकादृशः श्लोकः
 
मरीचयः स्वायंभुवाः ॥
 
अस्यार्थः – स्वयं भगवत्याः सकाशात् भवा उत्पन्नाः मरीचयो
 
-
 
मयूखाः । सर्वाणि भुवनानि आवृत्य वर्तन्त इति वाक्यशेषः । सूर्यचन्द्रा-
मीनां प्रकाशकत्वं स्वायंभुवमरीचिप्रसादा देवेति उत्तरत्र वक्ष्यते ॥
 
ये शरीराण्यकल्पयन् ॥
 
अस्यार्थः– ये मयूखाः षष्ट्युत्तरत्रिशतसङ्ख्याकाः शरीराणि कालात्म-
कानि षष्ट्युत्तरत्रिशतसङ्ख्याकानि दिनानि, तान्येव संवत्सरः, 'संवत्सरो वै
प्रजापतिः * इति श्रुतेः ॥
 
ते ते॑ दे॒हं कल्पयन्तु ॥
 
ते मरीचयः, ते तव भगवत्याः, देहं कल्पयन्तु देहमाश्रयन्तु ।
देहशब्देन देहावयवचरणमुच्यते । भववच्चरणोत्पन्ना इत्यर्थः ॥
 
मा च॑ ते ख्या स्मा॑ तीरिषत् ॥
 
WERDE
 
ते तव ख्या ख्यतिः ज्ञानं मा च तीरिषत् अस्मान् न जहातु,
भवद्विषयज्ञानं अस्माकं सदा सिद्धयत्वित्यर्थः ॥
 
इतः परं पृश्नयश्चक्रविद्यानुष्ठाने त्वरमाणाः परस्परं सङ्गिरन्ते -
 
उत्तिष्ठ॑त॒ मा स्व॑प्त । अग्निमिच्छध्वं भार॑ताः ।
 
-
 
राज्ञः सोम॑स्य त॒प्तास॑ः । सूर्येण सयुजेोपसः ॥
 
-
 
* वै. ब्रा. १-६-२.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri