2023-02-16 08:26:08 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
मन्त्रद्वयस्यार्थः– तनूनां पुत्त्रमित्र कलत्रादीनां अविता रक्षकः भूतु
भवतीत्यर्थः । इन्द्र एवास्माकं योगक्षेमसम्पादक इति भावः ॥
आप्लेवस्व प्रप्लेवस्त्र ॥
पृश्नयश्चक्रविद्यां प्रस्तुवन्ति । आपादमस्तकं प्लवनं अमृतनिष्यन्द-
सेचनं कुरु । प्रकर्षेण प्लवनं हिंसप्ततिसहस्रनांडीमार्गेषु आसेचनं 11
आण्डीभव ज मा मुहुः ॥
आण्डी– पिण्डाण्डं ब्रह्माण्डं च, च्विप्रत्ययान्तः । भव पिण्डाण्ड-
रूपेणास्मदीयेन ब्रह्माण्डरूपेण बाह्येन भवदीयेन प्रामुहि, भवत्सायुज्यं
देहीत्यर्थः । ज अवगच्छ । मुहुर्मामवगच्छ, अनुगृहाणेत्यर्थः । 'अज
गतौ ' इति धातोः अकारलोपश्छान्दसः ॥
सुखादी॑दु॑ःखनि॒धनाम् ॥
अस्यार्थः–सुखमत्ति अदयतीति सुखादि सुखसम्पादकः इन्दुः
चन्द्रः, बैन्दवस्थानगतः । खनिधनां— खं बैन्दवस्थानमेव नितरां धनं
यस्यास्सा ताम् । यहा— सुखादीं सुखप्रथमां सुखात्मिकाम् । दुःखस्य
निघनं नाशो तत्रेति दुःखनिधनां, अविज्ञातदुःखगन्धामित्यर्थः । यद्वा-
सुखादीं शोभनेन खेन इन्द्रियेण मनसा आदी आद्यां, मनोवेद्यामित्यर्थः ।
दुःखनिधनां दुःखानां दुष्टेन्द्रियाणां चक्षुरादीनां अगोचरामिति ॥
प्रति॑मु॒ञ्चस्व॒ स्वा॑ पु॒रम् ॥
स्वां भागवतीं पुरं देहं रेफान्तःशब्दः, प्रतिमुञ्चस्व अधितिष्ठ ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri