This page has not been fully proofread.

संस्कृतसन्दर्भः
 
सेनः कस्यापि विप्रियं जानाति ।
 
दुर्विनयः ।
 
विजयसेनः । भ्रातरः, नन्वलम् अलम् इदानीं तत्-
कथया । न खलु युष्माभिस्तथा किञ्चिदाचरितम् । एष
कथयामि ननु स्मर्तव्योऽयं बन्धुजनः गोष्ठी कथाप्रसङ्गे । अन्यच्च
भ्रातरः, द्रष्टव्यो युष्माभिस्तपस्वी नन्दको, हारीतश्च ।
तदिदानीम् आपृच्छे वः सर्वान् अनुज्ञायतां मे समा
वर्तनम् ।
 
सर्वे । सर्वथा शुभं ते भवतु ।
 
तत् क्षम्यतामस्माकं
 
आचार्य: । वत्स, अतिक्रामति गमनवेला, तत्
किञ्चित् त्वरितुमर्हसि ।
 
विजयसेनः
 
भगवन्, एवं भवतु ।
 
आचार्य: । शिवास्ते पन्थानः । एते वयमपि त्वां
नदीं वेत्रवतों यावदनुगच्छामः ।
 
परिशिष्टम्
 
1:0:1
 
श्लोकाः
 
आवृत्तये
 
For Recitation
 
प्रभातम्
 
उदयति मिहिरो
 
भुवनं कथमभिरामम् ।
 
प्रचरति चतुरो
 
विकसति कमलं
 
गुञ्जति कथमविरामम् ॥ १ ॥
 
दिशि दिशि धावति
 
विदलिततिमिरो
 
पवनो वहति सलीलम्
 
शिरसि तरुणां
 
मधुकरनिकरो
 
उपरि दलानां
 
खगकुलमतिशयलोलम् ॥ २ ॥
 
विलसति सलिलं
 
प्रसरति गगने
 
कूजति नृत्यति
 
खेलति रुचिररुणाभा ।
 
भज परमेश
 
रविकिरणानां
 
काऽपि हृदयहरशोभा ॥ ३ ॥
 
हिमकणिकानां
 
दुन्दुभिदमदमनादः ।
 
नरपतिभवने
 
पठ सनिवेशं
 
भवतादनुपममोदः ॥ ४ ॥
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University