This page has not been fully proofread.

दशमः प्रपाठकः
 
WITH
 
णिच्
 
THE CAUSAL.
 
बुध् div. a. to understand.
मुटु bhu a to rejoice.
 
धातवः
 
वह् bhu. u. to carry.
 
शब्दाः
 
17 । ful ; a mouthful of young
grass.
 
राशि m. a heap.
Reum
ह्यम् ind. yesterday.
 
उदन्त m. news.
व्याधित adj. sick.
वीहिभार m. a load of rice.
पूष्पकवल m. n. शष्प n. young
grass, कवल m.n.a mouth-
आचार्य: । वत्स सोमप्रभ, ह्यः किल अतिथिविशेषा-
गमनात् समयाभावेन नाहं रामायणचित्रं दर्शयितुं प्राभवम्,
अद्य पुनर्युष्मान् तद् दर्शयिष्यामि बोधयिष्यामि च सर्व
 
वृत्तान्तम् ।
 
सोमप्रभः । नूनमियं वार्ता सर्वान् नः प्रमोदयिष्यति ।
अथाद्य कतमस्यां वेदिकायाम् आचार्यचरणानाम् आसनं
स्थापयिष्यामि ?
 
४५
 
दशमः प्रपाठक:
 
आचार्यः ।
 
वत्स, श्रीवेदिकायामेव स्थापय ।
 
सोमप्रभः । भगवन्, एषोऽहं ब्रह्मचारिणस्तद् विज्ञा-
पयामि, गमयामि च तान तां वेदिम्, स्थापयित्वा च तत्रा-
सनम् आचार्यचरणान, तमुदन्तं निवेदयिष्यामि, ततो गमि-
व्यन्ति भवन्तः ।
 
भद्र विमर्दक,
आचार्यः ।
आयुष्मन्, तथा कुरु ।
अपि त्वं तमस्माकं व्याधितं नवीनं गोवत्सं नन्दनं नाम शष्प-
कवलमभोजयः, सलिलञ्च अपायय: ?
 
विमर्दकः । अथ किम्, अभोजयं तमहं शष्पकवलम्,
अपाययं च सलिलम् । सुखमेष साम्प्रतं कालं यापयति ।
 
आचार्य: । प्रियं मे विमर्दक, प्रियम् । भद्र, इमं
तावद ब्रीहिभारं संवाहकेन सुहृदो मे श्रीपतिशर्मणो गृहं
वाहय, अन्यं वा कमपि भृत्यमेतत् कारय । संमर्दकेन च
कथं प्रत्यागच्छति
शुष्काणामेतेषां यवानां राशिं कारय
सोमप्रभः ? वत्स सोमप्रभ, अपि सर्वे समवेता यूयं तत्र ?
सोमप्रभः । एवमिदम्, सर्व एव तत्र भवन्तमपेक्षन्ते ।
तर्हि गृहाणेमं चित्रपटं, तत्रैव गच्छामः ।
 
आचार्य:
: ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University