This page has not been fully proofread.

४२
 
संस्कृतसन्दर्भः
 
शब्दा:
 
एतावत् adj. so much, so
 
many.
 
कृते ind. for, on account of.
परिचर्या f attandence.
 
परिणत adj. ripe.
 
सत्कार m. a hospitable recep
 
tion.
 
[ smiling.
स्मयमान adj. one who is
 
चन्द्रहासः । सखे विष्णुरात, कुल वा किं वा कर्तुं
त्वमेवं द्रुतमिव गच्छसि ?
 
विष्णुरातः । चन्द्रहास, न त्वं जानासि यदस्माक-
माश्रमं द्रष्टुं सम्प्रत्येव कश्चिन, महानतिथिः समायातः ?
 
चन्द्रहासः । इदानीं खलु त्वन्मुखाज् जानामि ।
विष्णुरातः । आचार्यादेशात् तस्यैव महाभागस्य यथो-
चितं सत्कारं विधातुं गच्छामि । त्वं पुनरिह किं कुर्वन्
तिष्ठसि ?
 
चन्द्रहासः । न तावत् किञ्चित् करोमि ।
अपि
त्वस्माकं हारीतनाम्नः शुकशावकस्य कृते परिणतं दाड़िम-
फलं संग्रहीतुमिच्छन् पद्मप्रभमपेक्षमाणस्तिष्ठामि, सोऽपि
सह मया गन्तुमिच्छति ।
 
विष्णुरातः । तत् सखे तिष्ठ त्वम्, अहन्तु तमेव महा-
भागं परिचरितुं व्रजामि ।
 
चन्द्रहासः ।
 
४३
 
वयस्य पद्मप्रभ, किमर्थोऽयं ते एतावान्
 
नवमः प्रपाठकः
 
विलम्ब: ?
 
पद्मप्रभः । चन्द्रहास, विजयमेनो मामित आगच्छन्तं
दृष्ट्वा, श्रुत्वा च मदागमनप्रयोजनं हसन्नकथयत् – इदानों
खलु यूयं दाडिममानेतुं गच्छथ ? ननु पश्यत गत्वा हारीतो
सम्प्रत्येव
दाडिमवीजानि भुञ्जानः कथं सानन्दं कूजति ।
देवव्रत आश्रमतरुवीथिषु खेलंच धावंश्च सहसैव सुपरिणतं
दाड़िममेकमवलोक्य स्मयमानः समानयत् । तदलं तदर्थं
गमनेन युष्माकम् ।
एष पुनराचार्यः समागतस्यातिथेः
स्वयमेव सर्वा' परिचर्या पर्यवेक्षमाणो मामवदत्, यथा वत्स
विजयसेन, मद्दचनात् कथय गत्वा सर्वान् मे अन्तेवासिनो
युष्मान्
यत् समागतोऽयं महाभागोऽनतिविलम्बितमेव
विलोकयितुं गच्छति । अतः सर्वे यूयं चन्द्रमणिवेदिकायां
वर्तमानाः प्रतीक्षध्वमस्मानिति ।
 
विष्णुरातः । तत् किं विलम्बेन, एहि सखे पद्मप्रभ,
तत्रैव गच्छाव ।
 
पद्मप्रभः ।
 
वयस्य, तथा करवाव ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University