This page has not been fully proofread.

संस्कृतसन्दर्भ:
 
चन्द्रकेतुः । देव्याः कौसल्यायाः कुमारो रामः, देव्याः
कैकेय्या: कुमारो भरतः, देव्याः सुमित्रायाञ्च कुमारी
लक्ष्मणशत्रुघ्नौ । तत् किं नाहं वेद्मि ?
आचार्य: । वेसि वत्स वेल्सि, साधु खलु वेसि । अथेह
पश्यत यूयमेषां बाल्यवृत्तान्तम् । एते कुमाराः कुलगुरो-
महर्षेर्वसिष्ठात् वेदं शास्त्रान्तराणि चाधीयते, इतश्च स्व-
जनकादेव धनुर्विद्यां शिक्षन्ते । ननु पश्यत पश्यत कथमेते
धनुरादाय लक्ष्य' विध्यन्ति ।
 
80
 
इन्द्रप्रभः ।
 
इह पुनरेष कः ?
 
आचार्यः । एष महर्षिर्विश्वामित्रो महाराजं दशरथं
कुमारी रामलक्ष्मणौ याचते ।
 
आचार्य: । स्मरसि सत्यकाम, किमभिलष्य महर्षिः
कुमारावयाचतेति ?
 
सत्यकामः । राक्षसा मम यज्ञमुपद्रवन्ति, तत् कुमारौ
तान् हनिष्यत इति ।
 
1
 
आचार्य: । एष महर्षिनंगरादु निर्गत्य कुमाराभ्यां
चलति । ही ही भोः ! विश्वावसो, सत्यकाम, पश्यतमिमां
राक्षसों ताटकां नाम ।
 
विश्वावसुः । अहो हताशाया: भीषणं विकटं च रूपम् !
सत्यकाम, अपि बिभेषि त्वम् ? तत् किं न पश्यसि ?
 
सत्यकामः ।
 
नवमः प्रपाठकः
 
४१
 
यथा वा तथा वा भवतु, यदियमतिभैरवा, न मे तत्र
स्तोकोऽपि संशयः ।
 
आचार्य: । अत्रैष रामो धनुर्दधाति, युनक्ति च तत्र
निशितान् सायकान् । इयं च दुर्वृत्ता प्राणान् जहाति ।
सोमप्रभः । प्राप्नोतु पापीयसी परिणामं खदुष्कृतस्य ।
आचार्यः । आयुष्मन्तः, न जाने कुतोऽपि क्लान्तिमिव
किञ्चिदनुभवामीति ब्रवीमि अद्यात्रैवास्तु विराम इति ।
ब्रह्मचारिणः । यथा कथयन्त्याचार्यपादाः ।
 
नवमः प्रपाठकः
 
---:0:-
तुम्, शट, शानच्
 
THE INFINITIVE MOOD
 
AND
 
PRESENT PARTICIPLES
 
धातवः
 
with प
 
ईच् bhu. a. to see ;
 
to wait for; with परि + व
 
to take care or inspect;
 
को बिभेति, को वा न पश्यति ? किन्तु geshvari For with प्रति to awaitskrita University
 
शिल
 
चर bhu. p. with परि to
serve, to attend upon.
 
स्मि bhu. a. to smile.