This page has not been fully proofread.

३८
 
संस्कृतसन्दर्भ:
 
भोः, किं ब्रवीषि, अनिविड़ेऽपि तमसि सहसा पथि कञ्चित्
हस्तिनं दृष्ट्वा, श्रुत्वा च तस्य बृंहितं सर्वा आश्रमगावो
भीताश्चकिताच, ततश्च काश्चिद बन्धनदामानि छिन्दन्ति,
छित्त्वा च काश्चिद वेणुवेष्टनानि भिन्दन्ति, भित्त्वा च काश्चिद्
बहिर्निःसरन्तीति ? कुत्र संवाहकः, विमर्दकः, श्रीदासादयो
वा ? सर्व एव भृत्यास्तव गच्छन्तु, गत्वा च ताः सर्वा
रुन्धन्तु । वत्स इन्द्रविजय, त्वमपि तत्र गत्वा पश्य देता
गाव: शाम्यन्ति न वेति ।
 
इन्द्रविजयः । यथादिशत्याचार्य: ।
 
आचार्य: । कथं विलम्बत इवेन्द्र विजयः । अये एष
आगच्छति । सौम्य, अपि शान्ता गावः ?
 
इन्द्रविजयः । अथ किम्, शान्ता एव, साम्प्रतं ताः
सरसानि तृणानि भुञ्जते ।
 
आचार्य: । अथ कुत्रेदानों मे ब्रह्मचारिणः १ ?
सोमप्रभः । आचार्य, सर्वे ब्रह्मचारिणश्चम्पकावती-
मुपेत्य भगवन्तमपेक्षन्ते ।
 
आचार्य: । वत्स, गच्छ त्वमग्रतः, अहमपि विमर्दकं
किञ्चिदादिश्य अयमागत एव ।
 
श्वेतकेतुः । आर्य सोमप्रभ, किमब्रवीद आचार्य: ?
 
३८
 
पश्यत पश्यत,
 
आचार्यः ।
उपविशत वत्साः, उपविशत । सोमप्रभ,
इयं
अपावृणु त्वमिमं चित्रपटं गृहीत्वा । पश्यत आयुष्मन्त:,
पुण्यावगाहा स्रोतस्वती सरयूर्नाम । इयमस्यास्तटे अयोध्या ।
इदं
स्वयं मनुः किलैतां नगरीं निरमिमौतेति वदन्ति ।
समुन्नतं सुशोभनं च राजभवनम् । एष महाराजो दशरथः ।
इयमस्यात्र पुत्रेष्टिः । एष भगवान् वसिष्ठः । अयमपि
भगवान् ऋष्यशृङ्गः । एते चापरे ऋत्विजः ।
एषां कञ्चिदु आज्यधारां जुहोति, कश्चिद् देवेभ्यो हविर्दधाति,
कश्चिद् ददाति, दत्त्वा च कश्चिदन्यद् हविर्बिभर्ति । अयं
प्राजापत्यः पुरुषो दिव्यपायसपूर्ण पात्रं कराभ्यां धृत्वा होमा-
नलान्
निर्गच्छति । अयञ्चात्र निर्गत्य महाराजाय दशरथाय
तत् पायसपानं ददाति । इयं महिषी कौसल्या, इयं
कैकेयी, इयं च सुमित्रा । अहो कथं प्रसन्ना एता भुक्ता
पायसम् !
 
विश्वावसुः ।
 
एतत् पुनरत्र किम् ?
 
आचार्य: । इहायं कुमाराणां जन्मोत्सववृत्तान्तः ।
जानासि वत्स विश्वावसो, के के ते कुमारा: ?
 
विश्वावसुः । किं न जानामि ? रामो, भरतः, लक्ष्मणः,
 
अष्टमः प्रपाठक:
 
शत्रुघ्नश्च ।
 
आचार्य: । ब्रूहि त्वं चन्द्रकेतो, एषु कतमः कतमस्या
 
सोमप्रभः । अत्रभवान् सत्वरमेवागच्छति । हन्त
 
कथमागत एव । भगवन्निदमासनम् htised by Ajit Gargeshwari For महिया: पुत्र: ?mskrita University