This page has not been fully proofread.

३४
 
संस्कृतसन्दर्भः
 
क्रौञ्चयोरकं निशितेन सायकेन हन्ति । इतः स मृतः
शेते । इतश्चान्या सहचरहौंना हन्त कथमतिकष्टां दशा-
मनुभवति । हन्त भोः ! चित्रेऽप्येषा रौतीव, रोदितीव,
अकायें
क्रन्दतीव चेति प्रतिभाति । अहो नास्ति दुरात्मनाम्
नाम किञ्चित् । एते हि हेयमेव उपादेयम्, उपादेयं च
हेयमेव मन्यन्ते । सर्वथा धिगेतान् पापासक्तान् । पश्यतेह
वत्साः, पुनरपि भगवन्तं वाल्मोकिम् कथमयमङ्गितः,

कथमस्य सर्वस्मिन्नप्यङ्गे क्रौञ्चशोकेन पीड़ा चानुकम्पा च
प्रकाशते । अधुनैव हि एतस्य भगवतो वदनकमलानिर्गता-
सीत् सा सरखती। किं नेदं स्मरथ यूयम् ?
 
ब्रह्मचारिणः । कथं न स्मरामः ?
 
आचार्यः । कथय त्वं चन्द्रकेतो, का सा सरखती ।
चन्द्रकेतुः । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
 
ततः - ततः, यत् — यत् – ।
 
-
 
विश्वावसुः ।
 
अहम्, अहम् ब्रवाणि आचार्य
 
?
 
आचार्यः । त्वौं वक्ष्यसि ? अस्तु, ब्रूहि तर्हि ।
 
विश्वावसुः । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधोः काममोहितम् ॥
 
आचार्यः ।
 
साधु वत्स,
 
चारुतरं स्मरसि
 
द्वितीयं चित्रम् ।
 
पाठम् ।
 
ब्रह्मचारिणः । नूनमियं नगरी अयोध्या नाम ?
 
अथेदं
 
सप्तमः प्रपाठक:
 
३५
भागशः सर्व
 
आचार्य: ।
अथ किम् ; अयोध्यैवेयम् ।
एवायोध्यावृत्तान्त इहास्ति । अये पुण्डरीक, वत्स त्वं
निद्रासि । त्वमपि च चद्रसेन स्वपिषीव
त्वमपि शेषे ? किं भो विमर्दक, कः सन्देशः ?
 
इन्द्रप्रभ,
 
विमर्दकः । अम्बा ब्रवीति – सम्पन्नः पाको ब्रह्मचारि-
णाम् । अतो भोजनाय आगच्छन्तु मे वत्सा इति ।
 
Home
आचार्य: । ब्रूत यूयमायुष्मन्तः, किं वयमिदानीं
करिष्यामः, किं चित्रमेव च्यामः, उताहो भोजनाय
गमिष्यामः ?
 

 
सोमप्रभः । भगवन् कनीयसां ब्रह्मचारिणां बहव एव
क्लाम्यन्तीति पश्यामः । चित्राण्यपि प्रभूतानि । नह्येतेषाम्
एकेन द्वाभ्यां त्रिचतुरैर्वा पञ्चषैर्वा दिवसैः सम्पूर्तिर्भवि
व्यति। रात्रिर्वर्धते । तत्रभवती अम्बा आचार्यपत्नी वा
तत् कथयामि इहैवाद्य विरमतु
चित्रदर्शनं, सर्व वयं क्रमेणालोकयिष्यामः ।
 
कियन्चिरमपेक्षिष्यते ।
 
ब्रह्मचारिणः । मुष्ठु वक्ति सोमप्रभः । तत् तथैवास्तु ।
आचार्यः । यथा वदन्ति मे वत्साः ।
 
Digitised by Ajit Gargeshwari For Karnataka Šamskrita University