This page has not been fully proofread.

संस्कृतसन्दर्भ:
 
सोमप्रभः । प्रियं नः प्रियम् । अथ कस्मिन् समये,
कस्मिन् वा स्थाने तद् भविष्यति ?
 
३२
 
आचार्यः ।
ननु युष्माकं नियते नैशविनोदनसमय
एव भविष्यति । स्थानं पुनरस्माकम् अध्यापनवेदिश्चम्पका-
वती नाम ! उदेष्यत्यद्य चकोरबन्धुर्भगवांश्चन्द्रः । अंपा-
-
 
करिष्यति चायं समुज्ज्वलैः किरणकलापैस्तिमिरजालम् ।
अतो ब्रवीमि तदेव स्थानं चारुतरम् ।
 
सोमप्रभः । तथैवास्तु । एषोऽहं तर्हि गच्छामि,
कथयामि चेमं वृत्तान्तं सतीयेभ्यः ।
 
आचार्यः ।
गच्छ वत्स, एष भगवान् सहस्रकिरण:
अस्ताचलशिखरं प्रयाति । तत् प्राप्तोऽस्माकं सन्ध्योपासन-
समयः । अतः कुरुत यूयं सायन्तनकृत्यम्, प्रयात चानन्तरं
चम्पकावतीं वेदिम् । अहमपि तथा करोमि ।
 
चन्द्रकेतुः । अये कथमाचार्य इदानीमपि नोपैति ?
श्वेतकेतुः । नन्वलम् उद्देगेन । एषोऽत्रभवान् द्रुत-
पादक्षेपमागच्छति । भान्ति चैते चित्रपटा एतस्य पाणौ ।
आचार्य: । आयुष्मन्तः अपि सर्वं एव युषाकं समवेताः ?
 
"
 
ब्रह्मचारिणः । अथ किम् ; सर्व एव वयं समवेताः ।
आचार्य: । तदलं विलम्बेन । पश्यत यूयम् । एतत्
प्रथमं चित्र रामायणस्य । इयं स्त्रोतखती तमसा नाम ।
अयं भगवतो वाल्मोकेराश्रमः ।
 
सप्तमः प्रपाठक:
 
तरवः । अत्रैते लिखिता नैकविधा आश्रमपशवः ।
 
केचन मुनयः स्नानाय तमसामायान्ति,
 
स्नाता: प्रयान्ति, इतश्च केचन स्नान्ति ।
 
जलाञ्जलिना स्तुवन्ति भगवन्त' भास्वन्तम् ।
विश्वावसुः । अयं पुनरत्न कः ?
 
आचार्य: ।
 
न वेत्सि वत्स,
 
कोऽयमिति ?
 
अहं वेझि आचार्य, अहं वेद्मि ।
 
ब्रूहि तर्हि त्वरितम् ।
 
सत्यकामः । अयं भगवान् वाल्मीकिः ।
 
आचार्य: । अवितथमाह आयुष्मान् सत्यकामः ।
को नाम ।
 
सत्यकामः । क एतत् न वेत्ति ? अयं भगवतो
वाल्मीकः शिष्यो भरद्वाजः, यस्य हस्तात् स्नानेच्छु: स
भगवान् वल्कलमग्गृह्णात् । नेतदेवम् ?
 
आचार्यः । एवमेवैतत् एवमेवेतत् । तत् साधु वत्स,
 
साधु ! सुष्टु खलु स्मरसि रामायणवृत्तान्तस्य ।
 
चन्द्रकेतुः । अथ कुत्र स पापो निषाद, कुत्र वा तदु
वराकं क्रौञ्चमिथुनम् १
 
आचार्यः । नन्वितः पश्य । इदमत्र विद्यते ।
निषाद आरोपितेन धनुषा पर्यटति ।
 
सत्यकामः ।
 
आचार्य: ।
 
9
 
३३
 
इतः
 
इत: केचन
इह । केचिज्
 
एते समुच्छ्रितास्तपोवन-
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
अथायं
 
एष
 
एतचेह विहरति
 
क्रौञ्चमिथुनम् । इतोऽप्यन्यत्र पश्य । एष दुरात्मा तयोः