This page has not been fully proofread.

१०
 
संस्कृतसन्दर्भ:
 
केचिद वेदान्तमनुशीलयन्ति, केचिच्चापरां विद्यां चर्च-
यन्ति ।
 
ब्रह्मदत्तः । एते चात्र गृहस्था मुनयः आगतान्
अतिथीन् पूजयन्ति । अये किमेष महाभाग आवामाह-
यति ? किं कथयसि भगवन्, "युवाम् अतिथो, तद्
ग्रहणीयोऽयं सत्कार इति ?" साधु, भगवन् साधु ! नूनं
प्रभूतं नः सुक्कतं, यदु भवाह्शा अप्यस्मान् आह्वयन्ति ।
तदिमौ गच्छावः ।
 
धर्मरक्षितः । अपि त्वम् अवगच्छसि ब्रह्मदत्त, यदेते
गृहमेधिनो न तावद् भक्षयन्ति, यावन् न भक्षयन्ति अतिथय
इति ?
 
ब्रह्मदत्तः । अपि सत्यमिदम् ?
धर्मरक्षितः । किमसत्यं कथयामि ?
 
तृतीयः प्रपाठकः
 
वासाः पुण्यमरण्यमाश्रयन्ति, तपांसि चरन्ति, कथञ्चित्
शरीरं धारयन्ति, सेवन्ते च भगवन्तम् । इतवामी
सन्नग्रासिनो मुनयः, एते हि छिन्ननिखिलसम्बन्धा भगवन्तं
ध्यायन्ति ।
 
ब्रह्मदत्तः । अहो महानेषां धर्मभावः !
धर्मंरक्षितः । यो जनः केवलम् आत्मार्थम् अन्नं पचति,
निजोदरमेव पूरयति, नायम् अन्नकवलं खादति, अपितु
पापकवलमेव, इति हि धर्मशास्त्राणि वदन्ति ।
 
ब्रह्मदत्तः । भद्रं ते, सखे धर्मरक्षित, ईश्वर इति,
भगवान् इति च यत् त्वं कथयस, तत्रायं मे प्रश्न:-
कोऽयमीश्वरः ? को वायं भगवान् ? कस्तं पश्यति, अनु-
भवति वा ?
 

 
धर्मरचितः । ब्रह्मदत्त, अतिगम्भीरोऽयं ते प्रश्नः ।
दुरूहमस्य प्रतिवचनम् । तथापि किञ्चित् कथयामि । किं
त्व' वदसि ब्रह्मदत्त, किमिदं ते वसनं स्वयमुत्पन्नं, उताहो
वर्तते कश्चिदस्य कर्ता ?
 
ब्रह्मदत्तः । कथं स्वयमुत्पन्नं, ननु तन्तुवायोऽस्य कर्ता ।
धर्मरक्षितः । अथ यदिदं ते कनकाङ्गरीयकं, किमिदं
स्वयमुत्पन्नं, उताहो अस्यापि कश्चित् कर्ता वर्तते ?
 
ब्रह्मदत्तः । वर्तते अस्यापि कर्तेति प्रसिद्धमेव ।
किम् ?
 
ब्रह्मदत्तः । चारुतरं पवित्रतरं चेदम् । अथ धर्म-
रक्षित, इमे पुनः के ?
 
धर्मरक्षितः ।
तत इदं भवति, यत् सर्वस्यापि कार्यस्य
कश्चित् कर्ता भवतीति । नैतदेवम् ?
 
ब्रह्मदत्तः । एवमेव, कः सन्देहः ।
 
धर्मरचितः । एते वानप्रस्थाः । ईश्वरलाभ इति वा,
मुक्तिरिति वा परमः पुरुषार्थः । तदर्थमेते साम्प्रतं त्यक्तगृह-shwar For Kamधर्मरक्षित: Sk अथ यदिदं जगदुरूपं कार्यम्, नूनम्
 
ततः