This page has not been fully proofread.

उत्तरभागः ।
 
१३
 
तस्यास्तीरे विगतकलुषं विद्यते क्षेत्रक
तत्राधस्तादवतरतरां मार्गखेदं विनेष्यन् ।
आगच्छेयुर्दिन परिणतावङ्गसंक्षालनार्थं
 
तावत् सर्वास्तरळनयनास्तत्प्रदेशे वसन्त्यः ॥ ८ ॥
 
तासामेका सदृशवपुषामन्तरे सुन्दरीणां
 
निःसाम्याङ्गी परिलसति चेन्नाकिनीनां शचीव ।
 
तां तन्वङ्गीमतनुजघनां विद्युदाळीसवर्णा-
 
मजाक्षीमयि ! मम सखे ! जीवनाथामवेहि ॥ ९ ॥
 
नापश्यथेच्चडुलनयनां शान्तमार्गश्रम (स्तु) स्त्वं )
 
तस्मादाशु प्रथमकथितं क्षेत्रमेव प्रयाहि ।
नीलग्रीव नियतवसतिं तत्र गत्वा यथावत्
 
काले पश्चात् पतग ! पदवीं द्रष्टुमस्या यतस्व ॥ १० ॥
 
कञ्चित्कालं पुनरचरमे तोरणे सन्निविष्टः
 
प्राच्यामेव प्रहि (श ? णु) नयने पक्षमळाक्षी दिक्षुः ।
अप्राप्ते चाप्युदयमुटु काप्यभिख्या तदानीं
 
नेत्रद्वन्द्वं शिशिरयति ते नूनमर्काभितप्तम् ॥ ११ ॥
 
अन्विष्यन्नप्यति कुतुकवानाशु तत्कारणं त्वं
 
नन्वीक्षेथाः पुररिपुपदं प्रोद्यतायाः प्रणन्तुम् ।
मत्प्रेयस्या निजनिलयतः प्रस्थिताया दिनान्ते
 
निःसादृश्यं वदनकमलं निन्दितेन्दुप्रकाशम् ॥ १२ ॥