2026-03-03 05:32:32 by ambuda-bot
This page has not been fully proofread.
१२
चकोरसन्देशे
अत्युत्तुङ्गे त्रिपुर मथितुर्नित्यवासैकदेशं
वृत्रारातिप्रमुख विबुधैः सेव्यमानं विशालम् ।
वप्रेणावेष्टितमभित एवाप्रतर्यप्रभाव
क्षेत्रं रूप्यक्षितिधरमिव प्रेक्ष्य भूयः कृतार्थः ॥ ३ ॥
हृत्वा मत्रं सलिलनिलये केरळं भृसुरेभ्यो
दत्त्वा तांस्तानपि च विविधान् स्थापयन धर्मसेतून् ।
क्षेत्राण्यन्यानपि च बहुशः सम्प्रतिष्ठाप्य तस्मिन्
क्षत्रारण्यावलिहुतवहो यत्र रामस्तिरोभूत् ॥ ४ ॥
अन्तर्धानस्थलमनुदिनं वन्द्यमानं जनाचे-
रेतस्याद्याप्ययि ! भुजभुवो नाभिगच्छन्ति यस्मिन् ।
येषां वंश्या नृगकुरुहरिश्चन्द्रचन्द्राङ्गदाद्याः
प्रायो लोकान् प्रथममजयन् सासुरान् सामरांव ॥ ५ ॥
उवदेवाः कृतवसतयः कुर्वते केरळीया
यस्मिन् वेदाध्ययनमनिशं चोदिता भार्गवेण ।
नो विद्यन्ते ननु निवसतामापदो यत्र नॄणां
यद्वा माटक्षितियशसां भाजनं व्याहरन्ति ॥ ६ ॥
तस्यादूरे भुवनमहिता दीर्घिका दिव्यतोया
मत्प्रेयस्याः स्नपनविधिना श्लाघनीया विभाति ।
तत्रस्थानां तदनु वयसां कूजितं तावकीनं
श्रोत्रद्वन्द्वं प्रविशति सखे ! तावदव्यक्तवर्णम् ॥ ७ ॥