2026-03-03 05:32:32 by ambuda-bot
This page has not been fully proofread.
उत्तरभागः ।
तस्योपान्ते पुनरपि सरः सन्तरन् पक्षतिभ्यां
दृष्ट्रा सस्यैः सकुतुकमनाः पूर्यमाणान् प्रदेशान् ।
क्षेत्राण्यूर्ध्वान्यपि च भवनान्यञ्जसा लङ्घयित्वा
द्रक्ष्यन्नग्रे वृषशिखरिणं प्राग्वदेव प्रयाहि ॥ ४९ ।
दूरात्तावन्नयनपदवीं नूनमापत्स्यते ते
देशः कश्चिन्नयनसुभगः सर्वतेजोनिधानम् ।
... प्रतिपदमुपालक्ष्यमाणोऽप्युपान्ते
प्रायो भूयात् पतग ! भवता यामपादेन गम्यः ॥ ५० ॥
इति पूर्वभागः ।
अथ उत्तरभागः ।
त्रीण्यत्यर्थं त्रिभुवन पुराणानि तान्युज्ज्वलानि
प्रत्यक्षाणि प्रशमिततमोजालकान्यद्भुतानि ।
बिम्बानीव व्यपगतमलान्यर्कचन्द्रानलानां
संलक्ष्यन्ते तदनु भवता सोमसूत्राण्यमुत्र ॥ १ ॥
(वक्र१पङ्क्ति)स्तावत् तब नयनयोर्दूरतो गोपुराणा-
माविर्भूयादरुणसहजस्येव देवेन्द्र पुर्याम् ।
गत्वा या तु त्रिदशवसते मेरुशैलस्य शृङ्गा-
ण्यभ्रच्छन्नान्यधरितवती भाति भास्वत्प्रकाशान् ॥ २ ॥
११