This page has not been fully proofread.

१०
 
चकोरसन्देशे
 
कान्ताकारा लिखितवपुषस्तत्र दृष्ट्रा चकोरी:
कान्ताशङ्की भवतु न भवानातपान्धीकृताक्षः ।
अह्नायास्मादपगतपरिश्रान्तिरुत्पत्य भूयो
गच्छोदींची प्रथम पदवीमध्वगैर्वन्द्यमानः ॥ ४४ ॥
 
पश्चात् कुर्वन् पुरगिरिवनान्यम्वरान्तेन गच्छ-
 
नच्छं तावत् प्रविश सरितो नन्दिनीनामपत्यम् । (१)
निःशेषाघप्रशमन पयःसङ्गनष्टाशुभानां
 
तत्रस्थानां सफलय दृशस्त्वं चकोरेक्षणानाम् ॥ ४५ ॥
 
तामुत्तीर्य त्रिदशतटिनीं राजहंसो यथा त्वं
 
गत्वा मार्ग पुनरपि जवादेव यामार्धमात्रम् ।
आराद् गौरीमखिलजगतामादिभृतामधस्ता-
 
द्वामापाङ्गीं वलयनिलयाधीश्वरी माश्रयेथाः ॥ ४६ ॥
 
प्रेक्ष्यं तस्मात् प्रणतपरितापापहारिप्रकाश
 
प्रत्यासन्नं पुरुवनपतेर्मन्दिरं मन्दराभम् ।
 
निर्माणादलभत वरं कौरवक्षेत्रकर्ता
 
ताव (त्य : १ यः) प्राक् स्वयमिव यशः शैलपाथोधिनाथः ॥
 
तत्र स्थाणुं त्रिभुवनगुरुं संस्थितं सम्प्रणम्य
 
प्राकारा विहितवसतिर्विश्रमस्व (?) क्षणं त्वम् ।
 
उत्पत्य द्यामुपवनगरुत्पाटवो नाडिकान्ते
 
मन्दोष्णेषु धुमणि किरणेष्वश्रमं गच्छ भूयः ॥ ४८ ॥