This page has not been fully proofread.

पूर्वभागः ।
 
लक्षीकुर्वन् दिशमथ दशोराशुगत्याशु गत्वा
तस्माद् देशादपि च दशकं नाडिकानां तदानीम् ।
आरान्मेरोः शिखरवदधो ज्योतिषा दुर्निरीक्ष
प्रेक्षेथास्त्वं कनकरचितं प्रोन्नतं सोमसूत्रम् ॥ ३९ ॥
 
क्षेत्रं तावत् पतग ! भवता प्रे (क्षय) ते प्रागधस्तात्
पाल (क्ष्याः९क्ष्म्याः) प्रतिहतविपत्सङ्गमं सङ्गमाख्यम् ।
यत्र स्थित्वा किल कलिमले मनमेतत् समस्तं
प्रत्युद्धृत्य त्रिजगदवति प्रत्यहं दैत्यहन्ता ॥ ४० ॥
 
ब्रह्मनो वा बहुतररुजापीड्यमानो जळो वा
 
areer at विमलसलिले यत्र दुष्टाशयो वा ।
सद्यः पूतो भवति हि जनः सर्वपङ्काद्विमुक्तो
जम्बूनद्यास्तटगतमयः स्वर्णतामेति यद्वत् ॥ ४१ ॥
 
यत्रासङ्ख्याः परभृतगिरः पत्रिकाभिर्मुखाब्जं
प्रच्छाद्यैव सृजमनुदिनं विद्धि बन्नाति पद्मः ।
आलोक्य स्वामनुपमतमामाननाम्भोजशोभां
 
मा भूदेषां मनसि महती भीरितीव स्मरन्त्यः ॥ ४२ ॥
 
पक्षद्वय्या पतग ! नभसो भूमिभागेऽवतीर्णो
 
नत्वा देवं नरकजयिनं नाट्यरङ्गं प्रविष्टः ।
मत्प्रेयस्याः प्रियतम उपाविश्य तस्मिन् मुहूर्तं
 
मार्गश्रान्ति शमयतु भवान् मध्यभागे दिनस्य ॥ ४३ ॥