2026-03-03 05:32:31 by ambuda-bot
This page has not been fully proofread.
し
चकोरसन्देश
यत्रात्यर्थ वदनजनुषामन्नदानेन तुष्टिं
(गृह्णी१पुष्टी) कुर्वन् निवसति सदा पार्वतीभूः पडास्यः ।
कृत्वा पादप्रणतिमचिराद् वन्द्यमानो' जनौघे -
स्तस्य प्रीत्या मयि सकरुणो गच्छ भूयोऽप्युदीचीम् ॥ ३४ ॥
सह्यप्रस्थात् पतिमुपगतस्तत्त्र सेतुर्नदीनां
वञ्चीशेन स्वयमिह कृतः पञ्चशीर्ष निरो (ढुं ? धुम् ) 1
रामेणेव प्रथममुदधौ चन्दनाद्रेः सुवेल-
प्राप्तो भूयाद्दशमुखवधप्रार्थिना प्रेक्षणीयः ॥ ३५ ॥
अस्योत्तुङ्गे परिसरगते केतुदण्डे निषण्णः
संसृष्टाङ्गः सुरभिकुसुमामोदिना मारुतेन ।
विश्रान्तः सन् धवलवटिकामुद्रिते त्वं मुहूर्त
मन्दं भूयः कुरु मतिमतो गन्तुमाशामुदीचीम् ॥ ३६ ॥
द्वेधा भिन्ना तदनु पदवी लक्ष्यते तत्परं ते
किञ्चिद्वा भवति परमा शीघ्रगम्या तद्न्या ।
मौर्वीवाणासनलतिकयोरन्तरं विद्धि यद्वद्
यां वा काश्चिद् व्रज भुजगभुग्यद्वदाशंसितं ते ॥ ३७
सेव्याध्वानं सुरुचिरगते ! संश्रयन् यद्यगच्छो
मध्ये मध्ये पुरसरिदरण्यानि सन्त्युत्तमानि ।
तान्यन्यस्मिन्नकुटिलतरे सानुबद्धानि न स्युः
सर्वत्रैवं सह विवसतो नाम दुःखं सुखं च ॥ ३८॥
१. 'नो जनौ' ख. पाठः