This page has not been fully proofread.

पूर्वभागः ।
 
संस्थाप्यैनामिह सहचरीं गच्छ तच्चारुहास-
ज्योत्स्नास्वादं समनुभवतो नागतिः स्यान्न चेत् ते ।
द्वित्राणि त्वं गमय दयिताविप्रयुक्तो दिनानि
 
स्मृत्वा कान्ताविरहमसकृत् संसहन्तं सखे ! माम् ॥ २९ ॥
 
अस्मिन्नेषा वसतु सुखिनी चारुवीरुनिकुञ्ज
 
न स्यान्नूनं प्रसभमितरैः पीड्यमाना ययोभिः ।
 
यावत् प्रत्यागमनमयि । ते भ्रातरस्मत्प्रियाया-
 
स्तावत्कालं त्वहमिह भविष्याम्यमुष्याः सहायः ॥ ३० ॥
 
मार्ग नो चेद् गणयसि गिरा दर्शयिष्यामि सूत्र-
च्छायेवायं ध्रुवमकुटिलो वीतरोधो विभाति ।
तूर्णं चूर्णीवृष शिखरिणोरन्तरालं विलङ्घये
 
केचित् प्राहुर्भितगतिजवा योजनानां चतुष्कम् ॥ ३१ ॥
 
अर्थेनाह्वो भवति भवता लङ्घनीयोऽयमध्वा
विद्धि प्रत्यागतिरपि भवेन्नाम यामद्वयेन ।
एकेन स्यादपि च विपरीतेन वा देयितया ते ( 3 )
कालेनालं खगकुलपते ! प्राय एतावतैवम् ॥ ३२ ॥
 
आरुह्यास्मादनिलपदवीं दृष्टिरध्युत्तराशे
 
प्रक्षिप्ता दियमिव नदी लक्ष्यते काप्युपान्ते ।
तामुत्तीर्णः सपदि घटिकामात्रमेवावधाव (न्)
 
द्रक्ष्यस्यग्रे गुहपुरमिति ख्यातमन्तः प्र (पेदे ! देशम् ) ॥ ३३ ॥