This page has not been fully proofread.

चकोरसन्देशे
 
भूयोऽमुष्याः प्रसरति कथं मय्यमुष्मिन् कटाक्षो
जात्या नित्यं सुरतरुमिव प्रार्थयन्त्याः शिरी (पे१यं) ।
मातुर्याला मतमियमये !! नातियातुं समर्था
 
न स्वातन्त्र्यं नलिनसुदृशां चेति रूढा जनोक्तिः ॥ २४ ॥
 
वर्तॄणामिह हि महतां विद्यते नापराध-
 
स्तेषु प्रीतोऽस्म्यहमाय ! सदा मत्सरं न स्मरामि ।
के वा लोके कथय दयितां संत्यजेयुः परार्थे
 
त्वं किं कान्तां प्रदिशसि सखे ! याचते वायसाय ॥ २५ ॥
 
तामेवान्तस्तरळनयनां चिन्तयित्वानुवार
 
सन्दग्धाङ्गः स्मरहुतभुजा सोऽहमेवं वसामि ।
एषा तुभ्यं खग ! निगदिता प्रत्यया (त्मन्मत् ) प्रवृत्तिः
कारुण्येन ध्रुवमुपशमः कार्य एव त्वयास्याः ॥ २६ ॥
 
वाचालानामिह खलु नृणामव्यवस्था दुरापा
मा गाः शङ्कां कथमित्र खगेनोपलभ्या मयेति ।
कचिसो निपधनृपतेर्दोत्यमालम्ब्य तस्मै
विज्ञायान्तर्गतमकथयद् भीमभूमीन्द्रपुत्र्याः ॥ २७ ॥
 
लक्ष्मीवाह ! त्वयि तदधुना ह्यर्थिभावं गतोऽहं
 
मत्सन्देशः श्रवणपुटयोः कथ्यतां कातराक्ष्याः ।
तस्याः पार्श्व प्रति गतिरितः सर्वथा नो वृथा स्था-
च्छ्रीमानारात् स खलु भवता प्रेक्षणीयः प्रदेशः ॥ २८ ॥