2026-03-03 05:32:30 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः ।
चेतोयोनेर्विशिखशिखिना दह्यमानाङ्गमेनं
दीनात्मानं तदधरसुधापानानेध्या ( नवी निनं ) माम् ।
नैवान्यासां सुखयति सखे ! सङ्गमो बङ्गनानां
ज्योत्स्नास्वादादपरमृत किं रोचते ते चकोर ! ॥ १९॥
तस्याः शश्वत् कृतवसतिभिर्मन्दिरे सुन्दराङ्गया
मन्ये नृणां महितचरितैर्मन्दभाग्योदयस्य ।
कैश्चित् पुंभिर्भवति सुम (हत्? हा) पक्षपातैर्नलिन्यां
हंसा शैर्मधुपकलमस्येव रुद्धा गतिर्मे ॥ २० ॥
ग्राहय धैर्दलितवदनैः पूर्यमाणा नलिन्यः
कालव्यालैरपि परिवृता हन्त ! मालेयवृक्षाः ।
केतक्यश्चाप्यतिशितमुखैः कण्टकैर्वेष्टिताङ्गय-
स्तत्रामित्रा ननु सुबहवो यत्र रम्यः पदार्थः ॥ २१ ॥
म (दे ? न्दे) त(न्या? न्व्या) मयि नु विमुखं मानसं वानुकूलं
ज्ञात्वा तत्त्वं वदितुमिह मे विद्यते नो सखा च ।
( का ? को ) मे बन्धुर्भवति भुवनेमुष्य निष्किञ्चनस्य
द्रव्यादन्यन्न खलु सकलो वीक्षते हन्त ! लोकः ॥ २२ ॥
मात्रैवास्या मनसिजरिपुः प्रार्थ्यते सप्रमाण
वित्ताधीशो भवतु दुहितुर्जीवनाथो ममेति ।
सर्वस्वं मे तव तु करयोजीवितेनार्पयिष्या-
म्येवं पादे पतितमपि सा नैव पश्यत्यवश्यम् ॥ २३ ॥
१. 'कामो' क. पाठः