This page has not been fully proofread.

पूर्वभागः ।
 
मूर्च्छामाप्तस्तदनु तदनुध्यानतोऽसौ मुहूर्त
 
बुद्ध्वा भूयो भुवि निपतितश्चिन्तयामास चित्ते ।
कान्तोपेतः खगवदनिशं रन्तुमर्हनिंहमां
 
प्राप्यावस्था महह ! विषमां सोऽहमेवं विद्ये ॥ २ ॥
 
एनं तावत् किमपि कथये तर्हि नश्येद् व्यथा मे
सञ्चिन्त्यैवं परिसरमुपागम्य सन्तुष्टचेताः ।
चन्द्रालोकाक्षम मतिरनाकल्पतानष्टशोभं
 
प्रोवाचासौ वचनमशनिप्रायकामाग्नितप्तः ॥ १० ॥
 
लक्ष्मीचित्तप्रियवसतये पक्षिराजाय तस्या
 
लाक्षासङ्गादरुणित गरुद्भासिताशामुखाय ।
स्निग्धज्योत्स्नाग्रसन सुरणच्चारुचञ्चपुटाय
 
स्वैरं वध्वा सह विचरते सौम्य ! तुभ्यं नमोऽस्तु ॥ ११ ॥
 
जायापत्योरह हि युवयोर्दर्शनं मानसे मे
 
निखीकस्य प्रदिशति शुचः सर्वमोद प्रदायि ।
प्रेक्ष्यात्यन्तं प्रणयविवशा (वि.व ) त्युपान्ते रमन्तौ
 
कान्ताकान्तौ कथमिव सखे ! कामिनः संसहन्ते ॥ १२ ॥
 
रन्तुं योग्याऽस्म्यहमपि सदा पश्य यद्वद् भवन्तौ
तं मामेवं कृतवदधुना दैवमुद्वेलशोकम् ।
यावद् भूयो मयि सकतुके दृष्टिपात विधाता
 
तावन्नूनं सुखमनुभविष्यामि मुक्तो विपद्भ्यः ॥ १३ ॥
 
१. 'स्मां ह ह ह' ख. पाठः