2026-03-03 05:32:30 by ambuda-bot
This page has not been fully proofread.
२
चकोरसन्देशः
आत्मज्योतिर्विजितजलदा देवताभिर्निषेव्या
दिक्षु ख्याता दशसु भजतां भूतिदानेकयाहुः ।
घोराकारा गुरुतरवा भद्रकालीव देवी
कुर्वाणोर्वी विगतकलुषां या गिरीशादुदासीत् ॥ ४ ॥
स्नात्वा तस्यास्तदनु सलिले धर्मतापोपशान्त्यै
नक्तं तत्र क्षणमधिगतस्तस्थिवानस्ततापः ।
तद्वान्जच्छवि दिवि तदा वीक्ष्य बिम्बं हिमांशो-
रुद्यत्कामोद्यममलिनधीराप चिन्तां दुरन्ताम् ॥ ५ ॥
एतस्मादप्यतिशयतरं कातराक्ष्याः कदाचिद्
द्रष्टुं स्वप्नेsयुत किमतनोत् पुण्यमास्य मदास्यम् ।
निद्राहीने नियतमथवा मय्यमुष्मिन् कथं स्यात्
स्वभावाप्तिः वचन पदवी दृश्यते नो विचारे ॥ ६ ॥
कोणे स्थित्वा कचिदिह सदा कोकिलालापिनीं तां
काङ्क्षन्तं मां कथमिव विजानाति सा दूरसंस्था ।
योऽमुष्यै मे चरितमखिलं वेदयमेतदीय
प्रीत्या मद्यं प्रदिशति स मे जीवितादप्यभीष्टः ॥ ७ ॥
ध्यायनेवं मुहुरत इतो विक्षिपन्नक्षि तावत्
कान्ताहीनः कमपि कमलावाहनं मोहनाङ्गम् ।
ज्योत्स्नाखादे निरतमसकृद्वेतसीजालमध्ये
सङ्क्रीडन्तं सह दयितया सन्निकर्षे ददर्श ॥ ८ ॥