This page has not been fully proofread.

11 eft 11
 
चकोरसन्देशः ।
 
[ पूर्वभागः ]
 
कश्चित् कामी कुहचिदनिशं क्षत्रवीरः प्रियायां
बद्धप्रेमा तदनुसरणायासमर्थान्तरात्मा ।
स्मारंस्मारं विलसितरतान्याशये पेशलाङ्गया
 
मन्दः शोच्यामभजत दशां मन्मथाविष्टचेताः ॥ १ ॥
 
इत्थं नीत्वा कतिचन समाः कल्पकल्पा विकल्पै-
लेंभे नासौ सकृदपि पुनस्तत्प्रसादस्य लेशम् ।
दुर्गवर्गोपवनसरसीवासिनीं कौशिकारिः
 
शोकादन्यत् किमुत लभते काङ्क्षमाणो मराळीम् ॥ २ ॥
 
कल्याणार्थी स खलु कमलागारवासस्य तावद्
 
गौरीभर्तुः परिसरभुवं प्राप्य वासं चकार ।
जातु ज्योत्स्नाविशदसिकतं वातपोताभिरामं
 
पुण्यं चूर्ष्याः पुलिनमळिभिः पूर्यमाणं प्रपेदे ॥ ३ ॥
 
* Critically edited from three manuscripts available
 
in the University Manuscripts' Library.