2026-03-03 05:32:29 by ambuda-bot
This page has not been fully proofread.
३६
उत्तरभागः
जात्याः पौष्पो भ्रमरतरुणेनासवोऽस्याः कदा वा
तीव्रोत्कण्ठावलयितहृदा लभ्यते जविनयिः !
इत्येतस्मिन् मयि कथयति हीनतास्यात्रवीस्त्वं
भृङ्गायागात् खलु न सुमना भ्राजते पुष्पितेयम् ॥ ८५ ॥
एनां भूयः कथयतु भवान् सुभ्रु ! तैस्तैरुपायैः
कञ्चित्कालं गमय न भवेदीदृशी कस्य वापत ।
कान्ते! सद्यो भवतु गळिता योगयोरेतयोन
काचिल्लक्ष्मीरिव जलधरोन्मुक्तयो रोहिणीन्द्रोः ॥ ८६ ॥
दर्शदर्श नयनसुभगान् भूमिभागान् समस्तान्
पायपाय मधु सुमधुरं नूतन वारिजानाम् ।
सम्प्राप्यारं प्रियसहचरीवासतयीं विशाला-
hatarai कुरु गळितशुङ्मानसौ मानसौकः ॥ ८७ ॥
क्लेशग्रन्थि गुरुमगणयन् पक्षिनाथानुकम्पा -
दिग्धस्वान्त ! व्रजतु स भवान् व्योममार्गेण शीघ्रम् ।
गच्छामोऽमी सुगुरुविरहव्याकुला भूपदव्या
।
सान्द्रानन्दं प्रियसख ! पुनः प्रेक्षणं द्राकरोतु ॥ ८८ ॥
इससन्देशः समाप्तः ।