2026-03-03 05:32:29 by ambuda-bot
This page has not been fully proofread.
उत्तरभागः ।
क्रीडन् द्यूतप्रभृतिभिरहोरात्रमेष त्वयामा
प्राङ् निद्रां यां प्रियतमवरामप्यहं नाद्रिये स्म ।
उज्जृम्भच्चद्विरहदहनज्वालसन्तापदग्ध-
स्वान्तं तं मां न भृशकुपितेवेषदेषा धिनोति ॥ ८० ॥
चेतोजन्मा मम तनुमिमां भत्सितात्मीयकान्ति
कोपात् पुष्पैर्नयति तनुतां सायकैः स्वैः सुतीक्ष्णैः ।
युष्मत्सङ्गो यदि न लभते कल्मषेभ्यो महद्भ्य -
स्तत्तादृग्भ्यो न खलु हहह ! वस्यतीषज्जनोऽयम् ॥ ८१ ॥
त्वत्सङ्गश्चेत् सुमुखि ! लभते ह्रीं विहायैव गुर्वी
सोऽहं चेतोभवपरवशः कर्म किं नो करोमि ।
रुष्टाकाण्डे भवसि नितरामित्यहं भीतचेताः
कुर्वे तेऽङ्घ्रिद्वितयपतित शीघ्रमात्मानमेषः ॥ ८२ ॥
क्रूरो बद्ध्वा सपदि सुदृढैरार्तिपाशैर्महद्भि-
मूर्च्छागार नयति विरहस्तादृशो मां त्वदीयैः ।
सोsह मारज्वरकवळितो नापिबं हसवाणी-
३५
जीवातुं चेत् प्रणयिनि ! भवेदस्य नूनं मृतिर्मे (१) ॥ ८३ ॥
मवृत्तान्तं निगदितमिदं कृत्स्नमाकर्णयन्त्या -
स्तस्याः स्फायद्विरहभुजगास्वादितायाः प्रियायाः ।
भूयः सद्यो हृदयविलसद्वापर ग्रन्थिभेदं
कुर्वी (थेत्थ थास्तं) पतगवर ! मद्वाचिकैनामुना त्वम् ॥८४ ॥