2026-03-03 05:32:29 by ambuda-bot
This page has not been fully proofread.
३४
हंस सन्देशे
त्वय्येतस्मिन्निति कलयति प्रेयसी राजहंस !
स्मित्वा राजद्दशननिकरच्छाय शुक्लाधरोष्ठी ।
अर्धोन्मीलत्कुवलय महादामनीलैः कटाक्षैः
प्रेमस्निग्धैर्जलदमिव सा यक्षकन्या (च ) ति त्वाम् ॥७।
इत्थं भूयः प्रियसहचरीमाशु सम्भावय त्वं
वाग्भिः प्रेमप्रचुरलहरीमुद्रिताभिः खगेश ! ।
कल्यां माद्यद्विरहहुतभुक्कीलजालप्रताप-
प्लुष्टखान्तां सुमुखि ! भवतीं पृच्छति प्राणनाथः ॥ ७६ ॥
आलिख्य त्वां कथमपि चलत्पाणिरुद्यानरत्न-
स्थल्यां मन्दस्मितविहसितप्रोल्लसत्कुन्दकान्तिम् ।
सद्यः इच्योतन्नयनसलिलान्यम्बरेणापनीय
द्वन्द्वेनाणोर्न हि न बहुशो हन्त । भुङ्क्त जनोऽयम् ॥
मां क्रन्दन्तं कथमपि खलु स्वमसन्दर्शितत्वत्-
कण्ठाश्लेषच्युतिपरवशं विप्रबुद्धं विलोक्य ।
क्रव्यादौघो विपुलकरुणादग्धचित्तो नितान्तं
हाहेत्येवं पतति सहसा मूच्छितां भूमिपृष्ठे ॥ ७८ ॥
अश्रान्तं त्वं कमलवदनं ! क्षिप्रमारोहसीयं
मत्सङ्कल्पांच्छ्रिततरपुरः स्निग्धसोपानपङ्क्तिम् ।
श्वासान् क्लान्ताधर किसलयान्मुञ्चतेऽलं जनोऽयं
दीर्घान् नित्यं मदनविशिखायत्तवृत्तिनितान्तम् ॥७९॥