This page has not been fully proofread.

उत्तरभागः ।
 
किं नासाद्य प्रभवति मनोज्ञं नितम्बं (थर रथं) तं
पौष्पैर स्त्रैस्त्रिभुवनमिदं मीनकेतुर्विजेतुम् ।
अङ्गेनास्याश्चलदलदल केनचिद्भत्सितं किं
 
भीत्या कम्प्रं कलयति तपोऽधोमुखं तज्जयाय ॥ ७० ॥
 
किन्नूरुभ्यां विहसितकरः कोमलाभ्यामनुष्या
बीळावि द्विरदनिकरो वर्तते काननेषु ।
कालारातर्नयन शिखिना मारितस्यात्मयोने-
जङ्घाद्वन्द्वं व्यतनुत विधिस्तूणयुग्मेन मञ्जु ॥ ७१ ॥
 
मूर्ते रागैरिव वलयितं रोहितं पुरुषाणा-
 
मङ्घ्रिद्वन्द्वं जितकिसलयं भ्राजते स्निग्धमस्याः ।
सौन्दर्याद्यैर्विस किसलयैर्निर्जितानां वधूनां
 
३३
 
वृन्दं धात्रा गणितमकरोन्नाङ्गुलीच्छद्मना किम् ॥ ७२ ॥
 
चेतोजन्मप्रिय सखवयः श्रीविहारैकभूमि
 
कान्तानां गुणगणनिधिं लोचनाभ्यां निपीय ।
उन्मत्तोऽलं जगति कुरुते वल्लभायां निजायां
 
नित्यं स्वप्ने न हि निधुवनं तद्भिया पूरुषः कः ॥ ७३ ॥
 
आसाधारं किसलयमये तल्पमध्ये निषण्णा-
मेनां वक्तुं मधुरवचनैर्वल्लभां प्रक्रमेथाः ।
विद्धि प्रेयः सुहृदमयि मामागतं सुख! तद्वाक्-
 
सञ्जीविन्या विरहगरकैर्मूच्छितां जीवितुं त्वाम् ॥७४॥