This page has not been fully proofread.

₹२
 
हंससन्देश
 
भूयो भूयो द्विपवरगतेराननं निष्कलङ्क
 
चास्या वृत्तं नयनसुभगं स्वं कलङ्काङ्कितं च ।
दृष्ट्रा दृष्ट्रा प्रतिदिनमहो तच्छमायैव राजा
 
नक्षत्राणां कलयति जलैः क्षालनं बारिराशेः ॥ ६५ ॥
 
पश्चाद्धत्तां यदि हिमकरो दैवतः स्वीयम
 
वक्रस्यास्या भवतु सदृशः पृष्ठराजत्कचस्य ।
नूनं जातु ग्लप (य) तु (च) न चेत्तेजसा शीतभानोः
कान्तायास्तद्भवतु च चिरादास्यतुल्यं सरोजम् ॥ ६६ ॥
 
रत्नाङ्गुल्यावलिरुचि मनोमोहनाभ्यां मृदुभ्यां
दोर्दण्डाभ्यां कुवलयदृशः कोमलाभ्याममुष्याः ।
भीतैः सद्यो न फणिभिरधोविष्टपं किं प्रपेदे
लोकादस्माद्विसकिसलयैः सिन्धुपङ्कोदरं च ॥ ६७ ॥
 
लीलाशैला रतिमदनयारुल्लसद्रत्नमाला-
तेजोजुष्टौ नयनसुभगौ किं महान्तावुरोजौ ।
मत्कान्तायाः किमुत रतये दर्पकायोपहारा -
 
वस्याः स्निग्धौ स्मरसखवयोनिर्मितौ स्वर्णकुम्भौ ॥ ६८ ॥
 
अभ्यर्णस्थां मदननगरीं सूचयन्ती सुदीर्घा
 
श्यामा रोमावलिरकुटिला केतुयष्टिः किमस्याम् ।
 
मत्प्रेयस्या नयनमकरों वीक्ष्य लोलो ग्रहीतुं
नाभीरोकादसितहरिभृद्वल्लभा गच्छतीव ॥ ६९ ॥